________________
वन्दनप्रतिक्रमणावचूरिः
॥ १२ ॥
Jain Education I
गुरोर्वा १८, तर्जितं न कुप्यसि न प्रसीदसि वा किं त्वया वंदितेनेत्यादि वदतः १९, शठं विश्रम्भार्थ ग्लानत्वमिषेण वा न सम्यक् २०, हीलितं - गणिन्वाचकेत्यादिवचोभिर्हसतः २१, विपरिकुश्चितं - अर्द्धवन्दिते एव देशादिकथां कुर्वतः २२, दृष्टादृष्ट मिति - तमसि एवमेव आसीनस्य, दृष्टस्य तु सम्यग् आवर्त्तादीन् कुर्वतः २३, शृङ्ग-आवर्त्तेषु शिरसि वामदक्षिणे शृङ्गे स्पृशतः २४, कर:- राजकरमिव मन्यमानस्य २५, मोचनं-न मुच्येऽहमस्मादिति चिन्तयतः २६, आश्लिष्टानाश्लिष्टं-रजोहरणशिरोभ्यां आश्लेषानाश्लेषाच्चतुर्द्धा २७, ऊनं व्यञ्जनावश्यकैरसम्पूर्ण २८, उत्तरचूलिकं-वन्दनानन्तरं मस्तकेन वन्दे इत्यभिदधतः २९, मृकं - अव्यक्तस्वरं ३०, ढड्डरं - महच्छब्दं ३१, चुडुलीकं-उल्मुकवद्रजोहरणं भ्रमतः, हस्तं भ्रमयित्वा सर्वान् वन्दे इति वा वदतः ३२, “किइकम्मंपि कुणतो न होइ किइकम्मनिज्जराभागी । बत्तीसामण्णयरं साहू ठाणं विराहंतो ॥ ३२ ॥ बत्तीसदो सपरिशुद्धं किइकम्मं जो पउंजइ गुरूणं । सो पावइ निवाणं अचिरेण विमाणवासं वा ॥ ३३ ॥ " कारणान्यष्टौ - " पडिकमणे १ सज्झाए २ काउस्सग्गा ३ वराह ४ पाहुणए ५ । आलोअण ६ संवरणे ७ उत्तमट्ठे अ ८ वंदणयं ॥ ३४ ॥ सर्वमप्य अनुष्ठानं प्रथमं साधून उद्दिश्य सूत्रेऽभिहितं श्राद्धस्य तु यथायोग्यमायोजनीयं तत्र प्रतिक्रमणे उभयोरपि वन्दनं - " चत्तारि पडिकमणे किइकम्मा" इति वचनात् १, तथा साधोः स्वाध्यायस्य प्रस्थापने प्रवेदने प्रतिक्रमणे आसनानुज्ञापने च २, कायोत्सर्गे च विकृत्यनुज्ञारूपे ३, तथोभयोरपि अपराधक्षामणायां ४, प्राघूर्णके ५, आलोचनायां च ६, संवरणे-भक्तार्थिनः केनचित् कारणेन पुनरभक्तार्थप्रत्यारव्याने दिवसचरिमप्रत्याख्याने वा ७, उत्तमार्थे - चाराधनाकाले ८ इति ॥ दोषाः षट् - " माणो १ | अविणय २ खिंसा ३ नीआगोयं ४ अबोहि ५ भववुड्डी ६ । अणमंते छदोसा एवमडनउअसयमिहाई ॥ ३५ ॥”
For Private & Personal Use Only
44ddd
गुरुवन्दने १३२ दोषाः
॥ १२ ॥
ainelibrary.org