Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 31
________________ 'एव'मित्यादि गाथात्रयम्, एवं पूर्वोक्तप्रकारेण मयाऽभिष्टुता-नामभिः कीर्तिताः, किंविशिष्टा? विधूतरजोमलाः बध्यमानं 'मुलोबद्धं ऐयापथं वा कर्मरजः] तत्र सामान्यत 'उसभो'त्ति समग्रसंयमभारोद्वहनाद्वषभः, एवं तावत् सर्वेऽप्यन्तो वृषभा प्रथमे जिने को विशेष इति?, उच्यते, ऊोवृषभलाञ्छनत्वात् मातुश्चतुर्दशस्वमेषु पूर्व वृषभदर्शनाच्चेति वृषभः, एवं सामान्येन विशेषेण च नामान्वर्थः सर्वेष्वपि भावनीयः १, तत्र परीपहादिभिर्न जित इत्यजितः, गर्भस्थेऽस्मिन् जननी द्यूते राज्ञा न जिते त्यजितः २, संभन्वित चतुस्त्रिंशदतिशया अस्मिन् इति, शं-सुखं भवत्यस्मिन् स्तुते वेति शम्भवः, गर्भस्थे अस्मिन् पृथिव्यां अधिका शस्यसम्भूतिर्जातेति सम्भवः ३, अभिनन्द्यते देवेन्द्रादिभिरित्यभिनन्दनः, गर्भात् प्रभृत्येवाभीक्ष्णं शक्रेणाभिनन्दितः४, शोभना मतिरस्येति सुमतिः, गर्भस्थेऽस्मिन् द्वयोः सपत्न्योर्व्यवहारच्छेदने मातुः सुनिश्चिता मतिरभूदिति | सुमतिः ५, निष्पकतामाश्रित्य पद्मस्येव प्रभाऽस्येति पद्मप्रभः, गर्भस्थे प्रभोर्मातुः पद्मशयनदोहदो देवतया पूरित इति पद्म-1 वर्णश्चति पद्मप्रभः ६, शोभनानि पार्थान्यस्येति सुपार्श्वः, गर्भस्थेऽस्मिन् मातापि सुपार्था जातेति सुपार्श्वः ७, चन्द्रवत् सौम्या प्रभाऽस्येति चन्द्रप्रभः८, गर्भस्थेऽस्मिन् मातापि सर्वविधिषु कुशला जातेति सुविधिः ९, समस्तसत्त्वसन्तापोपशमकत्वात् शीतलः, गर्भस्थेऽस्मिन् पितुः पूर्वोत्पन्नोऽचिकित्स्यः पित्तदाहो राज्ञीकरस्पर्शादेवोपशान्त इति शीतलः १०, विश्वस्यापि श्रेयान-हितकर इति श्रेयांसः, गर्भस्थेऽस्मिन् केनाप्यनाक्रान्ता पूर्वदेवताऽधिष्ठिता शय्या जनन्या आक्रान्ता श्रेयश्च जातमिति श्रेयांसः ११, वसवो-देवविशेषाः तेषां पूज्यो वसुपूज्यः स एव वासुपूज्यो, गर्भस्थेऽस्मिन् वसूनि-रत्नानि तैरभीक्ष्णं वासवो राजकुलं पूजितवान् , वसुपूज्यस्य राज्ञोऽपत्यमिति वा वासुपूज्यः १२, विमलानि ज्ञानादीनि अस्येति, विगतमलो विमलः, गर्भस्थेऽस्मिन् 則未来冷冷清的索南市南內需消光南的南志高清流來流 घ.प्र. २| Jain Education et la For Private & Personel Use Only Marwainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134