Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वन्दनप्रतिक्रमगावचूरिः ॥४॥
शक्रस्तवावचूरिः
स्तिस्य दयन्त इति मार्गदयास्तेभ्यः, शरणदयेभ्यः, रागादिभयभीतशत्रुत्राणकारिभ्यः, 'बोधिदायिभ्यः' सद्दर्शनदातृभ्यः, एतानि यथोत्तरपूर्वपूर्वफलभूतानि, तथाहि-अभयफलं चक्षुः चक्षुःफलं मार्गेत्यादि, सम्पद् ५, अथाद्याया एव विशेषोपयोगसम्पदमाह-'धम्मदयाण' मित्यादि, धर्मदायिभ्यः, यथाई यतिगृहिधर्मदायिभ्यः, अत्र च हेत्वन्तराणां सद्भावेऽपि भगवंतः प्रधानहेतव इति, धर्मादयत्वं च धर्मदेशनयैव स्यादित्याह-धर्मदेशकेभ्यः, धर्म प्रस्तुतं यथायोगमवन्ध्यतया देशयन्ति धर्म-13 देशकाः तेभ्यः, "धर्मनायकेभ्यः'धर्मस्य वशीकरणात् फलोपभोगात् प्रवर्द्धनात् व्याघातरक्षणाच्च नायकास्तेभ्यः, 'धर्मसारथिभ्यः' प्रस्तुतधर्मस्य भव्यरथापेक्षया सम्यग्दमनप्रवर्त्तनपालनयोगतः सारथयो धर्मसारथयः तेभ्यः, अत्र मेघकुमारदृष्टान्तोऽवसेयः (पृष्टं ३२), तथा धर्मावरचतुरन्तचक्रवर्तिनः तेभ्यः, “अतः समृद्ध्यादौ "ति (८-५-४४) प्राकृतसूत्रत्वात् अत्रात्त्वं, सम्पत् ६, अथाद्याया एव सकारणस्वरूपसम्पदमाह- अप्पडिहये'त्यादि, अप्रतिहते-सर्वत्राप्रतिघेवरे क्षायिकत्वाद्विशेपसामान्यावबोधरूपे ज्ञानदर्शने धारयन्तीत्यप्रतिहतवरज्ञानदर्शनधरास्तेभ्यः, 'व्यावृत्तच्छद्मभ्यः' छादयतीति छद्म-ज्ञानावरणीयादिघातिकर्मचतुष्कं तव्यावृत्तं-अपगतं येभ्यः ते व्यावृत्तच्छद्मानस्तेभ्यः, सम्पत् ७, स्वतुल्यपरफलकृत्सम्पदमाह-जिणाण' मित्यादि, 'जिनेभ्यः' रागादिजेतृभ्यः 'जापकेभ्यः' अन्येषामपि देशनादानादिना रागादिजितिकारथितृभ्यः, 'तीर्णेभ्यः' भवार्णवपारगतेभ्यः 'तारकेभ्यः' तारयन्त्यन्यानपि तारकास्तेभ्यः 'बुद्धेभ्यः' ज्ञाततत्त्वेभ्यः 'बोधकेभ्यः' अन्येषामपि तत्त्वज्ञापकेभ्यः 'मुक्तेभ्यः' भवकर्मपाशरहितेभ्यः 'मोचकेभ्यः' मोचयन्त्यन्यानपि मोचकास्तेभ्यः, सम्पद् ८, साम्प्रतं मुक्त्यवस्थामाश्रित्य नवमी सम्पदमाह-'सबण्णू' सर्ववस्तुसामान्यविशेषात्मकमपि प्रथमसमये विशेषात्मकतया जानन्तीति सर्वज्ञाः तेभ्यः, ततो
॥४
॥
in Eduetan
For Private & Personel Use Only
25
nelibrary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134