SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ वन्दनप्रतिक्रमगावचूरिः ॥४॥ शक्रस्तवावचूरिः स्तिस्य दयन्त इति मार्गदयास्तेभ्यः, शरणदयेभ्यः, रागादिभयभीतशत्रुत्राणकारिभ्यः, 'बोधिदायिभ्यः' सद्दर्शनदातृभ्यः, एतानि यथोत्तरपूर्वपूर्वफलभूतानि, तथाहि-अभयफलं चक्षुः चक्षुःफलं मार्गेत्यादि, सम्पद् ५, अथाद्याया एव विशेषोपयोगसम्पदमाह-'धम्मदयाण' मित्यादि, धर्मदायिभ्यः, यथाई यतिगृहिधर्मदायिभ्यः, अत्र च हेत्वन्तराणां सद्भावेऽपि भगवंतः प्रधानहेतव इति, धर्मादयत्वं च धर्मदेशनयैव स्यादित्याह-धर्मदेशकेभ्यः, धर्म प्रस्तुतं यथायोगमवन्ध्यतया देशयन्ति धर्म-13 देशकाः तेभ्यः, "धर्मनायकेभ्यः'धर्मस्य वशीकरणात् फलोपभोगात् प्रवर्द्धनात् व्याघातरक्षणाच्च नायकास्तेभ्यः, 'धर्मसारथिभ्यः' प्रस्तुतधर्मस्य भव्यरथापेक्षया सम्यग्दमनप्रवर्त्तनपालनयोगतः सारथयो धर्मसारथयः तेभ्यः, अत्र मेघकुमारदृष्टान्तोऽवसेयः (पृष्टं ३२), तथा धर्मावरचतुरन्तचक्रवर्तिनः तेभ्यः, “अतः समृद्ध्यादौ "ति (८-५-४४) प्राकृतसूत्रत्वात् अत्रात्त्वं, सम्पत् ६, अथाद्याया एव सकारणस्वरूपसम्पदमाह- अप्पडिहये'त्यादि, अप्रतिहते-सर्वत्राप्रतिघेवरे क्षायिकत्वाद्विशेपसामान्यावबोधरूपे ज्ञानदर्शने धारयन्तीत्यप्रतिहतवरज्ञानदर्शनधरास्तेभ्यः, 'व्यावृत्तच्छद्मभ्यः' छादयतीति छद्म-ज्ञानावरणीयादिघातिकर्मचतुष्कं तव्यावृत्तं-अपगतं येभ्यः ते व्यावृत्तच्छद्मानस्तेभ्यः, सम्पत् ७, स्वतुल्यपरफलकृत्सम्पदमाह-जिणाण' मित्यादि, 'जिनेभ्यः' रागादिजेतृभ्यः 'जापकेभ्यः' अन्येषामपि देशनादानादिना रागादिजितिकारथितृभ्यः, 'तीर्णेभ्यः' भवार्णवपारगतेभ्यः 'तारकेभ्यः' तारयन्त्यन्यानपि तारकास्तेभ्यः 'बुद्धेभ्यः' ज्ञाततत्त्वेभ्यः 'बोधकेभ्यः' अन्येषामपि तत्त्वज्ञापकेभ्यः 'मुक्तेभ्यः' भवकर्मपाशरहितेभ्यः 'मोचकेभ्यः' मोचयन्त्यन्यानपि मोचकास्तेभ्यः, सम्पद् ८, साम्प्रतं मुक्त्यवस्थामाश्रित्य नवमी सम्पदमाह-'सबण्णू' सर्ववस्तुसामान्यविशेषात्मकमपि प्रथमसमये विशेषात्मकतया जानन्तीति सर्वज्ञाः तेभ्यः, ततो ॥४ ॥ in Eduetan For Private & Personel Use Only 25 nelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy