SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ | तेभ्यः, 'पुरुषसिंहेभ्यः' पुरुषाः कर्मशत्रून् प्रति शूरतया सिंहा इव पुरुषसिंहाः तेभ्यः 'पुरुषवरपुण्डरीकेभ्यः' [पुरुषवरपुण्डरीकाः तेभ्यः,] पुरुषाणां वरपुण्डरीकाणीव, यथैतानि पङ्कजातानि जले प्रवृद्धानि तद्वयं विहायोपरि वर्तन्ते तथा अहंतोऽपि कर्मपङ्के जाता भोगजलैः प्रवृद्धाः तद्वयं विहाय वर्तन्ते इति पुरुषवरपुण्डरीकाः तेभ्यः, 'पुरुषवरगन्धहस्तिभ्यः' - पुरुषा वरगन्धहस्तिन इव, यथैषां गन्धेनैव क्षुद्रगजा भज्यन्ते तद्वदीतिदुर्भिक्षाद्युपद्रवगजा अर्हद्विहारपवनगन्धादेव भज्यन्त इति पुरुषवरगन्धहस्तिनः तेभ्यः, सम्पत् ३, आद्याया एव सामान्येन उपयोगसम्पदमाह-'लोगु०' लोकोत्तमेभ्यः, इह लोकशब्देन भव्यसत्त्वलोको गृह्यते, तन्मध्ये चतुस्त्रिंशदतिशयोपेतत्वादिनोत्तमास्तभ्यः, लोकनाथेभ्यः लोकानां-विशिष्ट| सत्त्वानां सम्यक्त्वबीजाधानादियोजनेन रोगाद्युपद्रवरक्षणेन च योगक्षेमकारिणः अलब्धस्य लाभो योगः लब्धस्य परिपालनं क्षेमं, तत्र च दुर्लभालब्धसम्यक्त्वबीजलाभकारित्वात् योगिनः, क्षेमकारिणो भगवन्तः तस्य लब्धस्य रागाद्युपद्रवेभ्यो रक्षकत्वात् क्षेमकारिणश्चेति नाथा लोकनाथास्तेभ्यः, लोकहितेभ्यः, लोकाय-सकलैकेन्द्रियादिप्राणवर्गाय पञ्चास्तिकायात्मकाय वा सम्यगरक्षाप्ररूपणादिना हिता लोकहितास्तभ्यः, लोकप्रदीपेभ्यः, लोकस्य विशिष्टसंज्ञिरूपस्य देशनां शुभिर्मिथ्यात्वतमोऽपनयनेन प्रदीपा लोकप्रदीपास्तेभ्यः, 'लोकप्रद्योतकरेभ्यः, लोकस्य-गणधरादेः प्रद्योतं विशिष्टतत्त्वप्रकाशं कुर्वन्तीति लोकप्रद्योतकराः तेभ्यः, सम्पत् ४, योगसम्पद एव हेतुसम्पदमाह-'अभयदयेभ्यः' अभयं-इह |१ परलोका २ दाना ३ कस्मा ४ दाजीव ५ मरणा ६ श्लोक ७ लक्षणसप्तभयाभावं दयन्तीत्यभयदयास्तेभ्यः, चक्षुदयेभ्यः, तत्त्वावबोधरूपज्ञानदृष्टिदातृभ्यः, मार्गः-चेतोऽकुटिलगमनेन विशिष्टगुणस्थानावाप्तिप्रवणो दर्शनमोहादिक्षयोपशमविशेष Jain Educa t ional For Private & Personel Use Only B w .jainelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy