SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ शक्रस्तवावचूरिः वन्दनप्रतिक्रमणावचूरिः ॥३॥ 'व्युत्सृजामि' कुव्यापारनिषेधेन त्यजामि कायोत्सर्गेण । अत्र १९ कायोत्सर्गदोषाः, 'चंदेसु निम्मलयरेंत्यन्तश्चतुर्विंशतिस्तवश्चिन्त्यः, पारिते च समस्तोऽपि भणितव्यः॥ एवमीर्यापथिकी प्रतिक्रम्य महावृत्तानर्थयुक्तानपुनरुक्तान्नमस्कारान् भणतीति, ततः “अन्नुन्नंतरअंगुलिकोसागारेहि दोहिं हत्थेहिं । पिट्टोवरिकुप्परसंठिएहिं जह जोगमुद्दत्ति ॥१॥” इत्येवंलक्षणया योगमुद्रया प्रणिपातदण्डकं पठति, स चाय-नमुत्क्षुण'मित्यादि, 'नमो नमस्कारः अस्तु-भवतु'ण'मिति वाक्यालङ्कारे, केभ्यः? अर्हद्भ्यः, अत्र पाठवयं अरहंताणं अरिहंताणं अरुहंताणं' तत्र अर्हति शक्रादिकृतां पूजामित्यर्हतः१ अरीन् कर्मलक्षणान् नन्तीत्येवंसाधवोऽरिहन्तारः २ न रोहन्ति-दग्धकर्मबीजत्वात् पुनः संसारे न जायन्त इत्यरुहन्तः, तेभ्यः, चतुर्थ्याः षष्ठी, प्राकृतसूत्राच्चतुर्थ्याः स्थाने षष्ठी, बहुवचनं तत्तत्क्षेत्रकालभेदेन अर्हद्वहुत्वख्यापनार्थ, एते च नामाद्यनेकविधा इति भावाहवणार्थमाह-"भगवद्भ्यः' भगोत्र पनिधः, यथा-"ऐश्वर्यस्य समग्रस्य १, रूपस्य २ यशसः ३ श्रियः ४ । धर्मस्याथ ५ प्रयत्नस्य ६, षण्णां भग इतीङ्गना Dolm१॥" भगः-समग्रैश्वर्यादिलक्षणो विद्यते येषां ते भगवंतः तेभ्यः, सम्पत् १, एवंविधा एव भगवन्तो विवेकिनां स्तोतव्या | इत्याभ्यां आलापकाभ्यां स्तोतव्यसम्पदुक्ता । साम्प्रतमस्या एव हेतुसम्पदमाह-'आइगराण'मित्यादि, स्वस्वतीर्थेषु समस्तनीतिहेतुना श्रुतधर्मस्याकदिर्तृभ्यः, 'तीर्थकरेभ्यः' तीर्थ-चतुर्विधः सङ्घः प्रथमगणधरो वा तत्कारिभ्यः, 'स्वयंसम्बुद्धेभ्यः स्वयं-परोपदेशं विना सम्यग्-अविपर्ययेण बुद्धाः-ज्ञाततत्त्वाः स्वयंसम्बुद्धाः तेभ्यः, सम्पत् २, आद्याया एव हेतुविशेषसम्पदमाह-'पुरिसु०' पुरुषाणां-विशिष्टसत्त्वानां मध्ये तथास्वाभाव्यात् सर्वकालमसाधारणगाम्भीर्यादिगुणग्रामयोगादुत्तमाः Jan Educat For Private Personel Use Only
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy