________________
Jain Education
पापं छिनत्तीति वाऽऽर्षत्वात् प्रायश्चित्तं तस्य करणेन हेतुना, तच्च विशुद्ध्या स्यादित्याह - 'विसोही' त्यादि, विशोधनं विशोधिः - अतिचारापगमादात्मनो निर्मलीकरणं तस्याः करणेन हेतुना, तदपि विशल्यत्वे सति स्यादित्याह - 'विसली' त्यादि, विशल्यो- विगतमायादिशल्यस्तस्य विशल्यस्य करणं तेन हेतुना, किमित्याह - 'पावाण' मित्यादि, पापानां भवहेतूनां कर्म्मणां निर्घातनार्थ उच्छेदनार्थं 'ठामि' अनेकार्थत्वाद्धातूनां करोमि कायोत्सर्ग-कायव्यापारत्यागमित्यर्थः, किं सर्वथा ?, नेत्याह'अण्णत्थे'त्यादि, अन्यत्रोच्छासितात् ऊर्द्ध श्वासग्रहणात् पञ्चम्यर्थेऽत्र तृतीया, एवमुत्तरत्रापि, निःश्वसितात् श्वासमोक्षणात् कासितात् क्षुतात् जृम्भितात् उद्गारितात् एतानि प्रतीतानि, वातनिसर्गः अधोवात निर्गमः यस्मात् कासितादीनि च जीवरक्षार्थ मुखे हस्तादानादियतनया कार्याणि 'भमलीए' अकस्माद्हेतु देहभ्रमः, 'पित्तमुच्छाए' पित्तसंक्षोभादीप मोहो मूर्च्छा तस्याः, तयोश्च सत्योरुपवेष्टव्यं सहसा पतने मा भूत् संयमात्मविराधनेति, 'मुहुमेही' त्यादि, सूक्ष्मेभ्योऽङ्गसञ्चालेभ्यो-रोमोत्कम्पादिभ्यः सूक्ष्मेभ्यः 'खेलसंचालेभ्यः' खेल:- श्लेष्मा, सूक्ष्मेभ्यो दृष्टिसञ्चालेभ्यो- निमेषादिभ्यः 'एवमाइ एही त्यादि, एवमादिभिराकारैः - अपवादरूपैः, आदिशब्दादन्येऽपि गृह्यन्ते, अग्नेर्विद्युतोऽपि न भङ्गः, यदाहु: - " अगणी उच्छिदिज्ज व बोहीखोभाइ दीहडको वा । आगारेहिं अभग्गो उस्सग्गो एवमाईहिं ॥ १ ॥ " " एतैरभग्नः सर्वथा अखण्डितः अविराधितो- देशतोऽप्यविनाशितो भवेन्मम कायोत्सर्गः कियन्तं कालं यावदित्याह - 'जावे' त्यादि, यावदर्हतां भगवतां नमस्कारेण 'नमो अरिहंताण' मित्यनेन 'न पारयामि' पारं न गच्छामि, तावत् किमित्याह - 'तावे' त्यादि, तावन्तं कालं कार्य- देहं स्थानेन- ऊर्द्धस्थानादिना 'मौनेन' वागूनिरोधेन 'ध्यानेन' मनःसुप्रणिधानेन 'अप्पाणं' आर्षत्वादात्मीयं कार्यं
onal
For Private & Personal Use Only
jainelibrary.org