________________
वन्दनप्रतिक्रम
ईर्यापथिकीतस्सउत्तरीसूत्रावचूरिः
स्पर्शनरसनघ्राणचक्षुःसमन्विताश्चतुरिन्द्रियाः वृश्चिकादयः, स्पर्शनरसनघाणचक्षुःश्रोत्रसहिताः पञ्चेन्द्रियाः तिर्यग्नरामरादयः, सम्पत् ६, विराधनाप्रकारमाह-'अभिहयेत्यादि, अभिमुखमागच्छन्तो हताः-पादेन ताडिताः उत्क्षिप्य क्षिप्ता वा अभिहताः १, वर्तिताः-पुञ्जीकृताधूल्यादिना वा स्थगिताः२,श्लेषिता-भूम्यादौ लिङ्गिता ईषत्पिष्टा वा ३, सङ्घातिता-मिथो गात्रैः पिण्डीकृताः ४, संघट्टिता-मनाक् स्पृष्टाः ५, परितापिताः-सर्वतः पीडिताः ६, क्लामिता-ग्लानिं प्रापिताः, जीवितशेषाः कृता इत्यर्थः ७, अवद्राविता-उत्त्रासिताः८, स्थानात् स्थानं संक्रामिताः-स्वस्थानात् परस्थानं नीता ९, जीविताद् व्यपरोपिताः, मारिता इत्यर्थः १०, सम्पत् ६, 'तस्स' त्ति 'अभिहये'त्यादिविराधनाकारस्य 'मिच्छामिदुक्कडं' इति मिथ्या मे दुष्कृतं-पापं मिथ्या-विफलं 'मे' मम, भवस्वित्यर्थः, अस्य चैतन्निरुक्तं यथा-"मित्ति मिउमद्दवत्ते छत्ति अ दोसाण छायणे होइ । मित्ति अ मेराइठिओ दुत्ति दुगुंछामि | अप्पाणं ॥१॥ कत्ति कडं मे पावं डत्ति अ डेवेमि तं उवसमेणं । एसो मिच्छादुक्कडपयक्खरत्थो समासेणं ॥२॥" सम्पद् ७, सम्यगूमिथ्यादुष्कृतकर्तुः तत्क्षणादशेषमपि कर्म क्षीयते, अत्र च मृगावतीदृष्टान्तो ज्ञेयः, अस्यां चाष्टौ (पृष्ठं २६)। विश्रामोलिंगनपदानि, "इच्छं १ गम २ पाण ३ ओसा ४ जे मे ५ एगेन्दि ६ अभिहया ७ तस्स ८ । अड संपय बत्तीसं पयाई वण्णाण सड्ढसयं ॥१॥" एवमालोचनाप्रतिक्रान्तः कायोत्सर्गप्रायश्चित्तेन पुनरात्मशुद्ध्यर्थ इदं पठति-तस्सउत्तरीकरणेणमित्यादि, तस्य-आलोचितप्रतिक्रान्तस्यातिचारस्योत्तरीकरणादिहेतुना 'ठामि काउस्सग्ग'मिति योगः तत्रानुत्तरस्योत्तरस्य करणं-पुनः संस्कारद्वारेण उपरिकरणं उत्तरीकरणं, अयं भावार्थः यस्यातिचारस्य पूर्वमालोचनादि कृतं तस्यैव पुनः शुद्धये कायोत्सर्गस्य करणं तच्च प्रायश्चित्तकरणेन स्यात् इत्याह 'पापे'त्यादि, प्रायो-बाहुल्येन चित्तं-जीवं मनो वा शोधयतीति
॥२॥
Jain Education
For Private & Personel Use Only
aslainelibrary.org