________________
अधुना चैत्यवन्दना, सा च त्रिधा "नवकारेण जहण्णा दंडगथुइजुअल मज्झिमा नेया। संपुण्णा उक्कोसा विहिणा खलु वंदणा तिविहा ॥१॥" 'दंडगथुइजुगल त्ति चैत्यस्तवदंडकएकस्तुतिप्रदानयुगलरूपेति, अत्र च सम्प्रदायादुत्कृष्टा चैत्यवन्दना ईर्यापथिकीप्रतिक्रमणपुरस्सरं विधेयेत्यतः सैवादी व्याख्यायते, तद्यथा-'इच्छामी'त्यादि, इच्छामि-अभिलषामि प्रतिक्रमितुं-निवर्तितुं ईरणं ई-गमनं तद्युक्तः पन्था ईर्यापथः तत्र भवा ऐर्यापथिकी 'विराधना' जन्तुबाधा, मार्गे गच्छतां या काचिद् विराधना भवति सा र्यापथिकीत्युच्यते, यद्वा ईर्यापथः-साध्वाचारः, यदाह-"ईर्यापथो ध्यानमौनादिकं भिक्षुवतं" तत्र भवा ईर्यापथिकी विराधना-नद्युत्तरणशयनादिभिः प्राणातिपातादिका साध्वाचारातिक्रमरूपा तस्या विराधनायाः प्रतिक्रमि. तुमिच्छामीति सम्बन्धः, संपत् १, क सति विराधना? 'गमणागमणे' गमने चागमने च, तत्र स्वस्थानादन्यत्र गमनं व्यत्यये त्वागमनं, संपत् २, तत्रापि कथं विराधनेत्याह-'पाणकमणे'त्यादि, 'प्राणिनो' द्वीन्द्रियादयः तेषामाक्रमणे-सट्टने, 'तथा बीअक्कमणे हरिअक्कमणे बीजाक्रमणे हरिताक्रमणे, आभ्यां सर्वबीजानां शेषवनस्पतीनां च जीवत्वमाह, संपत् ३, तथा 'ओसे'त्यादि, 'अवश्यायः' त्रेहः, अस्य च ग्रहणं सूक्ष्मस्यापि अप्कायस्य परिहार्यताख्यापनार्थ, 'उत्तिंग' भूमौ वृत्तविवरकारिणो गर्दभाकारा जीवाः कीटिकानगराणि वा पनकः-पञ्चवर्णफुल्लिः, दकमृत्तिका-अनुपहतभूमौ चिक्खिल्लः यद्वोदकं-जलं मृत्तिका-पृथिवीकायः मर्कटकसन्तानः-कोकिलो (लिक) जालं तेषां 'संक्रमणं' आक्रमण, संपत् ४, किंबहुना ? 'जे मे जीवा विराहिया' ये केचन मया जीवा विराधिता-दुःखे स्थापिताः, सम्पत् ५, ते च के इत्याह-एगिदियेत्यादि, एकमेव स्पर्शनरूपमिन्द्रिय येषां ते एकेन्द्रियाः-पृथिव्यादयः, एवं स्पर्शनरसनोपेता द्वीन्द्रियाः शङ्खादयः, स्पर्शनरसनघ्राणयुक्तास्त्रीन्द्रियाः कीटकादया,
Jain Education
For Private & Personel Use Only
Mainelibrary.org