________________
वन्दनप्रतिक्रमणारचूरिः
नमस्कारसूत्रावचूरिः
॥१॥
नमसणाणि अरिहंति पूअसक्कारं । सिद्धिगमणं च अरिहा अरिहंता तेण वुच्चंति ॥१॥" नमः सिद्धेभ्यः, सितं-प्रभूतकालेन बद्धं अष्टप्रकारं कर्म शुक्लध्यानाग्निना ध्मात-भस्मीकृतं यैः ते निरुक्तिवशात् सिद्धास्तेभ्यः, यथा-"दीहकालरयं जंतुकम्म से सिअमट्ठहा । सि धंतंति सिद्धस्स, सिद्धत्तमुवजायइ ॥१॥” नम आचार्येभ्यः, स्वयं पञ्चविधाचारवन्तोऽन्येषामपि तत्प्रकाशकत्वात् आचारे साधव आचार्यास्तेभ्यः, यथा-"पंचविहं आयारं आयरमाणा तहा पयासंता। आयारं दंसंता आयरिया तेण वुच्चंति ॥१॥" नम उपाध्यायेभ्यः, उपेत्य-समीपमागम्य येभ्यः सकाशादधीयते इत्युपाध्यायाः तेभ्यो, यथा-"बारसंगो जिणक्खाओ, सज्झाओ कहिओ बुद्धेहिं । तं उवासंति जम्हा, उज्झाया तेण वुच्चंति ॥१॥" नमो लोके सर्वसाधुभ्यः, लोके-मनुष्यलोके सम्यग्ज्ञानादिभिर्मोक्षसाधकाः सर्वसत्त्वेषु समाश्चेति साधवः सर्वे च ते स्थविरकल्पकादिभेदभिन्नाः साधवश्चेति सर्वसाधवः तेभ्यः, यथा-"निबाणसाहए जोए, जम्हा साहति साहुणो। समा य सबभूएसं, तम्हा ते भावसाहुणो॥१॥"| एष पञ्चनमस्कारः सर्वपापप्रणाशनः। मङ्गलानां च सर्वेषां, प्रथमं भवति मङ्गलम् ॥१॥ अत्र चाष्टषष्टि ६८ रक्षराणि | नव पदानि अष्टौ च सम्पदो-विश्रामस्थानानि, सप्त एकैकपदाः अन्त्या तु द्विपदा, अधिकारिणस्तु पञ्च अहंदादयो मार्गाविप्रणाशादिभिः कारणैनमस्काराहाः, यथा-"मग्गे १ अविप्पणासे २ आयारे ३ विणयया ४ सहायत्तं । पंचविहनमुक्कारं करेमि एएहिं हेऊहिं ॥१॥" अस्य पाठे ऐहिकामुष्मिकफलं दृश्यते, "इहलोगंमि तिदंडी १ सादिवं २ माउलिंगवणमेव ३। परलोए चंडपिंगल ४ हुंडिअजक्खो अ५ दिद्रुता ॥१॥" एते दृष्टान्ता वृत्तितोऽवसेयाः। (पृष्ठं ३)
श्रावकानुष्ठानविध्यभिधाना द्वितीयावृत्तिर्वन्दारुवृत्यपरनाम्नी श्रीदेवेन्द्रसूरिविहिता वृत्तिरत्र, इहेत्यादिगाथार्थः त्रिदण्ड्यादिदृष्टान्तमयं राजसिद्धकुमारचरितं च ततोऽवगम्यम् ।
॥१॥
Jain Education
tional
For Private & Personel Use Only
jainelibrary.org