________________
श्रेष्ठि-देवचन्द्र-लालभाई-जैनपुस्तकोद्धार ग्रन्थाङ्के
श्रीरत्नशेखरसूरीश्वरवृत्त्यनुगता तु वन्दनप्रतिक्रमणावचूरिः।
इह तावत् श्रावकेणापि प्रत्यहं त्रीन् पञ्च सप्त वा वारान् दर्शनविशुद्ध्यर्थ चैत्यवंदना विधेया, यदाहुः-"साहूण सत्त वारा होइ अहोरत्तमज्झयारंमि । गिहिणो पुण चिइवंदण तिय पंच य सत्त वा वारा ॥१॥" तथा वंदनकं चाष्ट कारणान्याश्रित्य गुणवत्प्रतिपत्तये गुरूणां दातव्यं, तथा सर्वातिचारविशुद्ध्यर्थं प्रतिक्रमणं चोभयकालं अवश्यमनुष्ठेयमिति, तत्र चैतत् सर्वमपि अनुष्ठानं साक्षादेव गुर्वभावे स्थापनाचार्यस्थापनापूर्वकमेव विधेयं, यदाहुर्दुष्षमान्धकारसंभारनिमग्नजिनप्रवचनप्रदीपप्रतिमा जिनभद्रगणिक्षमाश्रमणपादाः-"गुरुविरहमि य ठवणा गुरूवएसो (रुब सेवो)वर्दसणत्थं च । जिणविरहमिविजिणबिंबसेवणाऽऽमंतणं सहलं ॥१॥रन्नोऽवि परुक्खस्सवि जह सेवा मंतदेवयाए वा। तह चेव परुक्खस्सवि गुरुणो सेवा विणयहेऊ ॥२॥" सा च नमस्कारपूर्विकैवेत्यतः स एवादौ व्याख्यायते इति, तत्सूत्रं चेदम्-नमो अरिहंताणमित्यादि नमो 'नमो' नमस्कारः 'अर्हद्भ्यः' शक्रादिकृतां पूजां सिद्धिगतिं वा अहंतीति अर्हतः तेभ्यः, यथा-"अरिहंति वंदण
व.
प्र.१
Jan Educatan
For Private & Personal Use Only
Mainelibrary.org