SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ द्वितीयसमये सर्ववस्तु सामान्यात्मकतया पश्यन्तीत्येवंशीलाः सर्वदर्शिनस्तेभ्यः, आह-इत्थमेषां दर्शनसमये ज्ञानस्यासत्त्वादसर्वज्ञताप्रसङ्गः, नैवं, सर्वस्य केवलिनः सर्वदैव ज्ञानदर्शनलब्धिसद्भावेऽपि तत्स्वाभाव्यात् न युगपदेकस्मिन् समये उपयोगयसंभवः, क्षायोपशमिकसंवेदने तथादर्शनात् , न च चतुर्तानिनोऽप्येकस्मिन् ज्ञानोपयोगे सति शेषज्ञानाभावः स्यात् , अत्र तु बहुवक्तव्यं तत्तु नोच्यते ग्रन्थगौरवभयात्, तथा 'शिवं' निरुपद्रवं 'अचलं' चलनक्रियारहितं 'अरुज' रोगवर्जितं अनन्तं अनन्तज्ञानयोगात् अक्षयं क्षयहेत्वभावात् अव्याबाधं अमूर्त्तत्वात् अपुनरावृत्तिः अकर्मत्वात्, सिद्धिगतिनामधेयं-लोकाग्रलक्षणं स्थानं सम्प्राप्तेभ्यः, नमो जिनेभ्यः जितभयेभ्यः, पुनरन्ते नमस्काराभिधानं मध्यपदेष्वप्यनुवृत्त्यर्थ, अत्र व स्तुतित्वान्न पौनरुत्यम् , यदाहुः-"सज्झायझाणतवओसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु अ न हुंति पुणरुत्तसदोसा उ ॥१॥" सम्पत् ९, अनेन च जिनजन्मादिषु शको जिनान् स्तौतीत्ययं शक्रस्तव उच्यत इति, (दो तिण्णि चउर-पंचय पंच पंचेव दुन्नि चउ तिन्नि । सक्क नवसंपयाओ आलावा हुंति तित्तीसं ॥१॥)"तित्तीसं च पयाई नव संपय वन्न दुसय बासठा । भावजिणत्थयरूवो अहिगारो एस पढमोत्ति ॥१॥" अतोऽनन्तरं त्रिकालवर्तिद्रव्याहद्वन्दनार्थमिमां गाथां पूर्वाचार्याः पठन्ति-जे अईया सिद्धे'त्यादिका, कण्ठ्या, ननु किं द्रव्याहतो भावार्हद्वत् नरकादिगतिगता अपि वन्दनार्हाः? कामं, कथमिति चेदुच्यते, सर्वत्र तावत् नामस्थापनाद्रव्याहन्तो भावार्हदवस्थां हृदि व्यवस्थाप्य नमस्कार्याः, अत्रापि च भरताधिपेन तथैव | नमस्कृतत्वात् (पृष्ठं ३६) एतत्स्वरूपं वर्तते ज्ञेयं, तदेवं द्रव्याहतां नमस्करणीयत्वात् पूर्वाचार्याचरितत्वाच्च युक्तेयं | गाथेति, द्रव्याहद्वन्दनार्थोऽयं द्वितीयोऽधिकारः, प्रथमो दण्डकः॥ For Private & Personal Use Only HINrjainelibrary.org nin Educat Dtional
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy