________________
वन्दनप्रतिक्रमणावचूरिः
चैत्यस्तवावचूरिः
तत उत्थाय "चत्तारि अंगुलाई पुरओ ऊणाई जत्थ पच्छिमओ। पायाणं उस्सग्गो एसा पुण होइ जिणमुद्दा ॥१॥" एवंरूपया जिनमुद्रया चैत्यस्तवदण्डकं पठति, स चायं-'अरिहंतचेइयाण'मित्यादि, अर्हतां भावाहतां चैत्यानि-चित्तसमाधिजनकानि प्रतिमालक्षणानि अर्हच्चैत्यानि तेषां वन्दनानि, तत्प्रत्ययं कायोत्सर्ग करोमीति सम्बन्धः, कायस्य उत्सर्गः-स्थानमौनध्यानं विना क्रियांतरनिरासेन त्यागस्तं करोमीति सम्पद् १, किंनिमित्तमित्याह-'वंदण' वन्दन-प्रशस्तमनोवाकायप्रवृत्तिःतत्प्रत्ययं-तन्निमित्तं यादृग् बन्दनात् पुण्यं स्यात् तादृक् कायोत्सर्गादपि मम भवत्वित्यर्थः, 'वत्तियाए' ति आर्षत्वात् सिद्धं, 'पूअणवत्तियाए' 'पूजन' गन्धमाल्यादिभिरर्चनं तत्प्रत्ययं 'सक्कार' सत्कारो-वस्त्राभरणादिभिः पूजनं तत्प्रत्ययं, नन्वेतौ पूजासत्कारी द्रव्यस्तवत्वात् साधोः “छज्जीवकायसंयम दबत्थए सो विरुज्झई कसिणो । तो कसिणसंजमविऊ पुप्फाईयं न इच्छंति ॥१॥” इत्यादिवचनप्रामाण्यात् कथं नानुचितौ ?, श्रावकस्य तु साक्षात्तौ कुर्वतः कायोत्सर्गद्वारेण तत्प्रार्थने कथं | न नैरर्थक्यम् ?, उच्यते, साधोव्यस्तवनिषेधः स्वयं करणं चाश्रित्य, नतु कारणानुमती, यतः-'अकसिणपवंतगाण' मित्याद्युपदेशदानतः कारणसद्भावो भगवतां विशिष्टपूजादिदर्शने प्रमोदादनुमतिरपि, यदुक्तं-"सुबइ य वइररिसिणा कारवणंपि अ अणुट्ठिअमिमस्स । वायगगंथेसु तहा एअगया देसणा चेव ॥१॥" श्रावकस्य त्वेतौ सम्पादयतोऽपि भक्त्यतिशयादा
धिक्यसम्पादनार्थ प्रार्थयमानस्य न नैरर्थक्यं, किञ्च तैर्भगवन्तोऽत्यादरेण वन्द्यमानाः पूज्यमाना अप्यनन्तगुणत्वान्न सम्यम् भवन्दितपूजिताः स्युः, अत्र दशार्णभद्रदृष्टान्तः (पृष्ठं ३९,) “सुरासुरनराधीशैः, सर्वैः सर्वद्धिभिर्जिनाः। युगपद्यदि पूज्यन्ते,
तथापि स्युने पूजिताः॥१॥" तदेवं पूजासत्कारौ भावस्तवहेतुत्वात् भणनीयावेवेति, 'सम्माण' सन्मानः-स्तवादिभिर्गुणो-|
॥
Jan Education International
For Private
Personel Use Only