Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 2. वामध्वजकृता सङ्केत्तटीका 1. निर्विघ्नेन प्रारिप्सितपरिसमाप्तिकामोऽविगीतशिष्टाचारपरिप्राप्ततया प्रारम्भणि(णी)यग्रन्थप्रतिपाद्यतत्प्रयोजनपुरस्सरं व्यक्ताव्यक्तमहेशपदगोचरकर्मज्ञानयोगरूपन[2A]मस्कारप्रतिपादनार्थमाह - सत्पक्षेति / कर्मयोगपक्षे तावदित्थं व्याख्या - न्यायोपार्जितप्रसनाञ्जलिरेव निष्पापईशस्य सदाशिवादिमूर्तेः पदयुगे चरणयुगे निवेशितो यतोऽतस्तस्यैव चरणयुगे सम चेतो मनो भ्रमर इव भ्रमदनवस्थितं रमयतु निश्चलमविघ्नं करोतु / अनघरूपता प्रसूनाञ्जलेर्दर्शयितुं कलिकात्वं स--नां च निवारयति / सत्पक्षेति / सन्मनोहरः पक्षप्रसरः पत्रविकाशो यत्र स तथा / सतामविकलचक्षुषामित्यर्थः / प्रोद्बुद्धगन्धविशेषसम्बन्धितामाह - परिमलेति / सतामित्यत्रापि सम्बन्धनीयम् / सतां श्लेष्माद्यनुपप्लुतघ्राणानामित्यर्थः / परिमलो गन्धविशेषः, तस्य प्रोद्बोधो ज्ञानम्, तेन बद्ध उत्सवो रतिरानन्दो यत्रेति / अपर्युषितत्वं दर्शयति - न विम्लान इति / सतां विमर्दने करतलद्वयसम्पर्के न विम्लानो न विवर्णतां गतः / भ्रमरस्येव मनसो रमणनिमित्ततामाह - अमृतेति / अमृतसमो रसः अमृतरसः / प्रस्यन्द इति / प्रस्यन्द: प्रवाह: अविच्छेदेनानुवर्तमानः, स एव माध्वीकं म(म)धु, तस्य भूराश्रयः / “तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय / द्वे ब्रह्मणि वेदितव्ये घरं चापरमेव च" इत्यादि श्रुतेः परमात्मज्ञानस्य निःश्रेयसहेतुतावगतौ बौद्धाधि[2B] ....... कुतर्काभ्यासप्रगल्भनास्तिकप्रपञ्चितयुक्तिप्रकरापादिताप्रामाण्यापसारणाभिप्रायेण निःश्रेयसकारणभूतपरमेश्वरपदगोचरमननसाधकप्रमाणविशेषविप्रतिपन्नपुरुषबोधकन्यायप्रतिपादनाय वाऽयमेव श्लोको। ___ ज्ञानयोगपक्षेऽपि व्याख्यायते / सत्पक्षेति / अस्मिन् पक्षे निर्दोषन्यायाः पञ्चावयवप्रयोगा एव प्रसूनानि, तेषामञ्जलि: / अञ्जलित्वं पुनायरूपप्रशस्तानां निषेध्यविधेयरूपलिङ्ग.... पदयुगे प्रमाणयुगे, पद्यते गम्यते अनेनार्थ इति व्युत्पत्त्या / अत्र चागमस्य प्रामाण्या..... व्यतिरेकानुमाने च / अस्मदाद्यात्मव्यतिरिक्तपरमेश्वरविषये पदयुगतया द्रष्टव्ये / निवेशितो यतोऽतस्तस्यैव प्रमाणयुगे मननसाधके उक्तरूपं रेतो रमयतु / ततो म[न]नानन्तरचोदितनिदिध्यासनादिसिद्धौ मोक्षः सिध्यतु / अनघन्यायप्रसूनाञ्जलित्वमुक्तं तत् कथमित्यत आह - सत्पक्षेति / सन्न वाधितो अप्रतिबुद्धः सिद्धसाधनादिरहितस्वपक्षः सत्पक्षः / तत्र प्रसरतीति तत्र वा प्रसरो [3A] यस्येति भागासिद्धिस्वरूपासिद्धिरहितः / एवं च बाधप्रतिबोधात् भागस्वरूपासिद्धिनिरासः / सतामदुष्टान्त:करणानामिति सर्वत्र सम्बन्धः / दुष्टमनसां पुनः परेषां स्वान्त(न्तः)पाषाणपाटनपटीयान(नां) विपरीमेवाचरति / परिमल: परिशीलनं समन्तत आकलनं सामान्यव्याप्ततया, तस्य प्रोद्बोधो विशेषविषयतया पर्यवसानम्, तेन बद्धो निश्चलीकृत इत्यतः परमपुरुषार्थोपयोगीच्छाऽविच्छेदो यत्रेति / व्याप्यत्वासिद्धविरुद्धनिरासः / विमर्दनं तत्र द्विपक्षकोट्यदृष्टोद्भूत्यादिसंस्पर्शनम्, [न] तत्र विम्लानः / संभावितस्य....ष्टोद्भूतिवत्सविवृद्ध्यर्थं क्षीरप्रसवादेः पक्षकोटावन्तर्भावादित्यनैकान्तिकापाकरणम् / नन्वीश्वरपदयुगे मनो निवेशनमपि निष्फलं स्वातन्त्र्येण, प्रयोजनाश्रुतेः / फलवत्सन्निधानाप्रतिपादनाच्चेत्यत आह - अमृतेति / न विद्यते मृतमस्य यत्र तदमृतं निर्वाणम्, तस्य रसः तद्गोचरेच्छा / तस्य प्रस्यन्द उत्तरोत्तरप्रवाहाविच्छेद(दे)नानुवर्तनम् / स एव माध्वीकं मधु / तस्य भूराकरः / सञ्जातापि मुमुक्षा कुतार्किकैस्तत्तत्संदेहापादनेनापसार्यते / अतस्तदापादितसंदेहापनोदकप्रमाणविशेषविषयन्यायनिवेशनेन विवर्ध्यत इत्यर्थः / नन्वस्मदाद्यात्म[3B]ज्ञानमस्मदाद्यात्मसाक्षात्कारपर्यन्त.... तस्योक्तरूपं ज्ञानं संसारकारण दाराऽपवर्गकारणमस्मदात्मा च / तथा तत्कि परमात्मगोचरप्रमाणविशेषविषयन्यायनिरूपणेनेत्यत आह - स्वर्गेति / मिथ्य
Loading... Page Navigation 1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 210