________________
१३२
श्रमणविद्या-३
धर्मदर्शननृत्यशिल्पादयः सांस्कृतिकतत्त्वानामेवाध्यापनं कारयति। तया पद्धत्या परम्परागत बौद्धविद्याया: मूलोच्छेद एवाभवत् इति दौर्भाग्यमस्माकम्। तेषु विश्वविद्यालयेषु ये पठन्ति ते केवलं विश्लेषणमेव कर्तुं पारङ्गताः जायन्त नतु विषयं सम्यक् रुपेण जानन्ति। यथा प्रमाणवार्तिक विषये ते वदन्ति सम्यक् रुपेण इतिहासस्य विश्लेषणं कुर्वन्ति, किन्तु तत्र किमस्ति तत् न विदन्ति। अत एव सम्पूर्णानन्द संस्कृत विश्वविद्यालय सदृश: एवं महेन्द्र संस्कृत विश्वविद्यालयस्य पाठ्यक्रमः निर्धारितोऽस्ति। अध्यापकानां चयनेऽपि परम्परागताध्येतारः डॉ. काशीनाथ न्योपाने महोदयस्य चयनं जातं। यादृशं भारतस्य आधुनिक विश्वविद्यालेषु बौद्धविद्यायाः अध्ययनं जायते तत्र बौद्धशिल्प, बौद्धस्थापत्य, बौद्धाचार विचार, बौद्धनृत्य, बौद्धजीवन दर्शनादीनामेव विश्लेषणेन अध्ययनेन चिन्तनेन वा परम्परागत विद्यायाः ते विमुखा सञ्जाता इति अत्र नेपाले सौभाग्यात् न तथास्ति इति अहं जानामि।
अत्र महेन्द्र विश्वविद्यालये पूर्वस्नातकेऽपि अध्ययनं भवतीति समीचीनम्। आधुनिकविश्वद्यालयेषु यद् हि एम.ए. कक्षासु पाठ्यते तदिह पूर्वस्नातक कक्षायां पाठयितुं शक्यते।
सम्प्रति सन्ताक स्नातकोत्तरयोः कृत्ते सम्पूर्णानन्द संस्कृत विश्वविद्यालयादेव प्राय: पाठ्यक्रमः प्रचलति । सन्दर्भ ग्रन्थ
१. बौद्धधर्मदर्शन-आचार्यनरेन्द्रदेव २. मज्झिमनिकाय—देवनागरीलिपि ३. खुद्दकनिकाय-देवनागरीलिपि ४. बौद्धदर्शनमीमांसा—आचार्यबलदेवउपा. ५. बुद्धचरितम्-महाकविअश्वघोषविरचित ६. सौन्दरनन्द–महाकविअश्वघोषविरचित ७. ललित विस्तर–महाकविअश्वघोषविरचित ८. बौद्धधर्म दर्शन का इतिहास डा.जी.सी. पाण्डेय ९. धम्मपद। १०. भारतीय दर्शन-आचार्यबलदेव उपा. ११. भारत का इतिहास। १२. विश्व का इतिहास।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org