Book Title: Shramanvidya Part 3
Author(s): Brahmadev Narayan Sharma
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text
________________
१२
षड्दर्शनेषु प्रमाणप्रमेयसमुच्चयः
अथ सामान्यपदार्थ:
१
सामान्यं द्विविधम् — परमपरं च । तत्र परं सत्ता द्रव्य-गुण-कर्मसु 'सत्. सत्' इत्यनुवृत्तिप्रत्ययकारणत्वात् सामान्यमेव । यत् उक्तम् — 'सदिति यतो द्रव्यगुण-कर्मसु सा सत्ता" । तथा अपरं द्रव्यत्व- गुणत्व कर्मत्वादि । तत्र द्रव्यत्वं द्रव्येष्वेव । गुणत्वं गुणेष्वेव कर्मत्वं कर्मस्वेव । इति सामान्यपदार्थः ।
अथ विशेषपदार्थ:
'नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः '
नित्यद्रव्याण्याकाशकालदिगात्ममनांसि चतुर्विध परमाणवश्च । ते च अत्यंतव्यावृत्तिबुद्धिहेतुत्वात् विशेषा एव । इति विशेषपदार्थ: ।
अथ समवायपदार्थः – अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इहेति प्रत्ययहेतुः स समवायः । इति समवायपदार्थः ।
३
प्रमाणम् — वैशेषिकसिद्धान्ते प्रमाणं वक्तव्यमिति चेत्, तदुच्यते- लैङ्गिकप्रत्यक्षे द्वे एव प्रमाणे, शेषप्रमाणानामत्रैवान्तर्भावात्।
तत्र लैङ्गिकं प्रमाणं दर्शयन्नाह — अस्येदं कार्यम्, अस्येदं कारणं सम्बन्धि एकार्थसमवायि विरोधि चेति लैङ्गिकम् ।
अस्येदं कार्यम्, यथा विशिष्टो नदीपूरो वृष्टेः । अस्येदं कारणम्, यथा मेघोन्नतिर्वृष्टेरेव ।
सम्बन्धि द्विविधम्
संयोगि समवायि चेति । तत्र संयोगि, यथा धूमोऽग्नेः । समवायि यथाविषाणं गोः । एकार्थसमवायि द्विविधम्-कार्यं कार्यान्तरस्य कारणं कारणान्तरस्य चेति ।
तत्र कार्यं कार्यान्तरस्य यथा— रूपं स्पर्शस्य । कारणं कारणान्तरस्य यथापाणिः पादस्य। विरोधि चतुर्विधम्- अभूतं भूतस्य, भूतमभूतस्य, अभूतमभूतस्य, भूतं भूतस्येति । तत्राभूतं वर्षकर्म भूतस्य वाय्वभ्रसंयोगस्य लिंगम् । तथा भूतं वर्षकर्म अभूतस्य वाय्वभ्रसंयोगस्य लिंगम् ।
१. प्रशस्तपादभाष्य- पृ. ९६४;
Jain Education International
२. वैशेषिकसूत्र - १२ ७;
For Private & Personal Use Only
३. प्रशस्तपादभाष्य ६ ।
www.jainelibrary.org

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468