Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 33
________________ विशेषस्तदिव आचरतीति क्यङि “दीर्घश्च्चि"० [४।३।१०८] इति दीर्घे, क्विपि, तल्लोपे "अतः" [४।३।८२] इत्यल्लोपे “य्वोः प्वय" [४।४।१२१] इति यलोपे ताम्रास्तथा इ: कामस्तदिव आचरतीति कर्तुः विपि धातुत्वे शतरि अयन् । द्वयोर्विशेषणसमासे ताम्रायन् । कया ? दीप्रा दीपनशीला या दीपनं "क्रुत्सम्पदादिभ्यः" [५।३।११४] क्विपि-दीप कान्तिस्तया दीप्रदीपा जिनस्य सुवर्णवर्णत्वात्-पीत-रक्तयोरैक्यात्-इति वर्णनम् । पुनः किं० 'लषी कान्ता' [९२७] कान्तिरिच्छा लषतीति विपि सौ "धुटस्तृतीयः" [२।११७६] इति घस्य डत्वे, ड-लयोरैक्यात् व्यत्यये, डल् इव डल् वाञ्छकः । कथम् ? प्रति लक्षीकृत्य । काम् ? ई लक्ष्मीरष्टप्रातिहार्यरूपा [ताम् लक्षीकृत्य] । प्रभोः सर्वत्र तुल्यमनोवृत्तित्वेऽपि कविना अष्टमहाप्रातिहार्यश्रीभोक्तृत्वदर्शनात् तदिच्छा उपचर्यते । सिद्धये किं० 'अव रक्षणे'. [४८९] इति गत्यर्थाद् अवतेः अवन्ति जानन्ति तत्त्वातत्त्वमिति क्विपि "मव्यवि०" [४।१।१०९] इत्युपान्त्येन सहोटि उवो विचक्षणजनास्तेषाम् । 'हो निपाते च हस्ते, दारुणि शूलिनि" [ ] इति एकाक्षरनाममालावचनात् हो हस्तः स एव “शरं जले" [हैम० अने० २,४६५] इत्यनेकार्थात् र-लयोरक्यात् शलं तस्माद् भवतीति "क्वचित्" [५।१।१७१] डे शलभं कमलं करकमलमित्यर्थः तस्मिन् प्रकर्षेण वसतीति क्विपि “यजादिवश्-वचः०” [४।११७२] इति वृति सस्य षत्वे, र-लयोरैक्ये ऊहशलभप्लोट् तस्यै ऊहशलभप्लोषे । पुनः कि० को पृथिव्यां राजतीति "क्वचित्" [५।१।१७१] डे कुरो यः अयः शुभकर्म तम् । 'ताङ पालने [८०६] इति तायते पालयतीति क्विपि “य्वोः प्वय०" [४।४।१२१] इति यलुपि चतुर्थ्याम् । "लुगातोऽनापः" [२।१।१०७] इत्यालोपे कुरायते चित्रत्वाद् विसर्गानुस्वारयोर्भावाभावौ न दोषाय। एवं यथासम्भवं सर्वत्र ज्ञेयम् । ड-लादीनाम् ऐक्यं तु पूर्व कथितमेव ॥३॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥४॥ ['सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डलीम् । प्रत्यूहः-शरभप्लोषे दीपदीपाऽऽकुलायते ॥४॥] [ १ 'सिद्धय' शब्दस्य सप्तम्या एकवचनम् ‘यन्नखमण्डलि' इत्यस्य विशेषणम् । २ °ताम्रास्' शब्दस्य प्रथमाया एकवचनम् 'इ' इत्यस्य विशेषणम् । ३ 'यन्नखमण्डला' शब्दस्य सप्तम्या एकवचनम् । ४ मण्डलि+ईम् मण्डलीम् । ५ ईम् प्रति इति संबन्धः । ६ ऊहस-शरभप्रोषे सप्तम्या एकवचनम् । 'सिद्धये इत्यस्य विशेषणम् । ७ प्र.ऊष्+अण-प्रोष् - प्रोषे । ८ तृतीयाया एकवचनम् 'दीप्रदीप' इत्यस्य । ९ आकुलायत मस्तन्याः क्रियापदम् । १० यत+इः = यतेः ।] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148