Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 76
________________ ૩૭ [' सिद्धयेवर्द्ध ! मोsऽनैस्तात् तौऽम्राऽऽयैन् ! नख ! मण्डलीं । प्रत्यूह शैलभ प्लोवेदीप्रदीपाङ्कुरायते ||४३|| ] [१] सिद्ध+या+ इ + वा + ऋद्ध = सिद्धयेवर्द्ध! संबोधनैकवचनम् । २ 'मा' निषेधवाची तस्य 'उहः इत्यनेन अन्वयः -त्वं मा उहः- मा पीडय इति भावः । ३ आन्+अस्=आनः अनेन 'आन्' इति वर्णद्वयं सूचितम् । ४ त + अट्ट=तात् इति प्रथमान्तम् अथवा संबोधनम् । ५ ता+अ+म्ला+ड =ताऽम्ल ! =ताऽम्र ! संबोधनम् | सिद्धयेवर्द्ध ! इत्यस्य विशेषणम् । ६ ई + विच् =ऐ, अ + ऐ =ऐ +अन् = आयन् संबोधनम् अनेन 'अन' इनि वर्णद्वयसूचनम् ततः आन्+अन='आनन' इति पदम् 'चन्द्रानन' नामकस्य शाश्वतजिनस्य सूचकं जातम् । ७ नख ! संबोधनम् । ८ मण्डलीं । अनुस्वारस्य अगणने मण्डली, अर्थस्तु द्वितीयाया बोध्यः अस्य श्लोकस्य उत्तरार्धस्थस्य द्वितीयपादस्थितस्य 'यतेः' इत्यनेन पदेन सह ‘मण्डली’ पदस्य अन्वयः । ततः 'यतेः मण्डलीम्' इति आशयो लब्धः । ९ प्र+दय्+ति= =ऊन्=प्रत्यू प्रथमायाः एकवचनम् । उहः इति 'उह्' धातोः अद्यतन्या द्वितीयैकपुरुषैकवचने क्रियापदम् प्रत्यू + उहः = प्रत्यूहः विसर्गस्य अगणने प्रत्यूह इति ज्ञेयम् । १० शष्+अभा= शडभाः डस्य लत्वे शलभाः अस्य षष्ठया एकवचने शलभः विसर्गस्य अगणने शलभ इति । इदम् 'यतेः' इत्यस्य विशेषणम् ११ प्र + उषा + इत् = प्रोषेत्+ई= प्रोषेदीः रस्य लत्वे विसर्गाभावे च प्लोवेदी + इ + प्रदीप + अङ्कुर+अस्= प्लोषेदीप्रदीपाङ्कुराः ततः अभीष्टं सिध्यति । यतेः इति षष्ठयन्तम्, विसर्गाभावे यते इति । ] Jain Education International व्याख्या- - आन् इति वर्णद्वयेन असति शोभते क्विपि आनस्तस्य संबो० हे आनः ! एतावता आन इति सिद्धम् । तथा ईकारम् ईयते गच्छति विचि गुणे ऐः ईदृशम् अन इति वर्णद्वयं यस्मिन् स आयन् तस्य सं० हे आयन् ! एतावता आनन इति सिद्धम् । "ते लुगू वा” [३।२।१०८] इति पूर्वपदस्य लोपे आननः श्रीचन्द्राननः शाश्वतजिनस्तस्य संबो० हे चन्द्रानन ! तथा हे सिद्धये वर्ध ! सिद्धा शाश्वती या लक्ष्मीस्ताम् 'इणूक् गतौ' [१०७५] इति एति गच्छति "मनू-वन्-क्वनिप्०" [५।१।१४७] इति वनि सिद्धयेवा शाश्वतजिनः स चासौ ऋद्धश्च सिद्धयेवर्धस्तस्य सं० । हे ताम्र ! ता ज्ञानरूपा लक्ष्मीः तया न म्लायति " क्वचित्" [ ५|१|१७१] इति डे ताम्रस्तस्य सं० । तथा 'उख नख ' [ ६४ ] इति गत्यर्थात् नखे : ' गत्यर्था ज्ञानार्थाः' इति नखति जानाति तत्त्वातत्वमिति अचि नखो ज्ञानवान् तस्य सं० हे नख ! त्वं यतेः जातावेकवचने यतीनां जितेन्द्रियाणां मण्डलीं श्रेणीं प्रति लक्षीकृत्य मा उहः मा अर्दये इत्यर्थः । रूपसिद्धिस्त्वेवम्'उहू तुहृ दुट्टै अर्दने' [५६१] इति उहेर्धातोरयतन्याः 'सिचि 'ऋदिच्छ्वि' [३।४।६५] इति अङ्प्रत्यये माङा योगे वृद्ध्यभावे इति । प्रत्यू प्रपूर्वाद् 'दयि दान - हिंसा - दहनेषु' [७९९] इति 'दयि' धातोः प्रदयनं क्तौ यलोपे “अतः " [४।३।८२] इति अल्लोपे १ 'अर्दय' इति अथवा 'अर्दयेः' इति उचितम् । २ 'सिवि' इति यैकपुरुषैकवचने 'सिवू' प्रत्ययः न तु 'सिच्' इति । उचितम् । अद्यतन्याः द्विती For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148