Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 115
________________ व्याख्या-सिद्धा सम्पन्ना या लक्ष्मीर्यस्य स सिद्धयस्तस्य सं० हे सिद्धय ! इभ्य ! त्वं कुरायं कुत्सितरायं द्रव्यम् अन्योपार्जितां लक्ष्मी न अष-मा अङ्गीकुर्वित्यर्थः। यतः किं० ई लक्ष्मीस्तस्या वर्षो वृद्धिस्ता' ' मूङ् बन्धने ' [६०१] इत्यतो मैवति बध्नाति विचि गुणे ईवर्धमौः ताम् आ अम्-शसोऽता" [१ । ४ । ७५] इत्यकारे ईवर्धमाम् । अनुस्वाराभावो न दोषाय, चित्रकाव्यत्वात् । एवं सर्वत्र । पुनः किं० 'न (ण) सि कौटिल्ये '[५१ ] क्विपि भावे तलि नस्ता कौटिल्यं तेन आत्तां गृहीताम् । अत्र तु विरामविवक्षया "तौ मुमोर्व्यञ्जने०" [१। ३। १४ ] इत्यनुस्वाराभावः । एवं सर्वत्र । त्वं किं० राः स्वर्ण तद्वदाचरति निजशरीरकान्त्या इति शतरि रायन् । कुरायं किं० खं सुखं तस्य 'मडुङ् वेष्टने' [ ६९२] इति परमते विभा जनार्था इत्यतो घनि मण्डो विभागः पृथक्करणं तं लीयसे श्लिष्यसीति क्विपि खमण्डली ईदृशः इः कामो यस्मात् सकाशात् सा खमण्डली तां श्लेषादनुस्वाराभावः । अत एव किं० इः कामः स एव दीप्रोऽग्निस्तं दीपयतीत्यचि इदीप्रदीपा ताम् इदीप्रदीपाम् । कस्य ! ते तवैव कामाग्निदीपिकामित्यर्थः । त्वं तु किं. अभः कामस्तं प्लोषति दहतीति "क्वचित्" [५ । १ । १७१] डे अभप्लः कामन इत्यर्थः । पुनः किं० प्रतिनिम् ऊहो विचारः ताभ्यां शटति जानातीति तत्त्वातत्त्वमिति क्विपि टस्य डत्वे ड-लयोरैक्याल्लत्वे प्रत्यूहशल् ॥ ७९ ॥ इति श्रीजिनमतानुसारि सर्वं यथाक्रमं व्यावर्ण्य, प्रतिपक्षस्य शिवशासनस्य किञ्चिद् वर्यते । तत्र त्रयो देवाः ब्रह्मा विष्णुमहेश्वरश्च । तत्र प्रथमं ब्रह्माणमेव वर्णयति-तथाहि-- सिद्धये वधमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाकुरायते ॥ ८० ॥ ['सिद्धये वैध ! माऽऽनः स्तात् ताम्रायन्नखमण्डली । प्रत्यूह-शल-भ-प्लोषे-दीप-दीपा-ऽङ्कुरायतेः ।। ८०॥] [१-सिद्धये चतुर्थ्यन्तम् । २-व+ऋद्ध-वर्ध ! संबोधनम् । ३ म ! संबोधनम् । “मः शिवः चन्द्रमा वेधाः"-एका. सुधा० श्लो० २७ । अर्थात् हे ब्रह्मन् ! इत्यर्थः । । अन्+घञ= आनः-प्राणभूतः । वर्ध+म+आनः वर्धमानः । ५ स्तात् क्रियापदम् । ६ ताम्र+अस ताम्रास अन्न. ताम्रायन्न० । ७ अन्न+न+मण्डल+णिन् अन्नखमण्डली । ८ प्र+तीव्=प्रत्यू+ह+शर+भ+ (प्र+उषा ) प्रोषा+ई+दीप्र+दीप+अङ्कर आयति-तस्य प्रत्यूहशलभप्लोषेदीप्रदीपाङ्कुरायतेः ।] १ 'ताम् ' इति उचितम् । २ ‘मवते' इति शुद्धम् । ३ " तौ मुमो व्यञ्जने स्वो" इत्येवं सूत्रस्यास्य शुद्धपाठः । ४ विभाजनार्थः 'इति संशुद्धम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148