Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 127
________________ इन्ध+क्विप्-प्रत्यूहशलभग्लोषेत् । १० ईप्-प्रथमान्तम्-ईप्+रदि+ई+पा+क्विप् ईप्रदी-पा+आम्= ईप्रदीपाम् षष्ठीबहुवचनम् । ११ कु+रा+क्विप्=कुराः । १२ यतेः षष्ठ्यन्तम् । ] । ___व्याख्या-डं शिवम्-निजप्राणेशम्-लीयते आलिङ्गतीति क्विपि डलीः पार्वती नः सिद्धये स्यात्-भवतु-इति क्रियासम्बन्धः । किं० उः शिवः, तस्यार्धे समेंऽशे, मातीति क्विपि.वर्धमाः । पुनः किं० ' ताम्राक्षः कोकिलः पिकः " [ हैम० अभि० तिर्यकां० श्लो० १३२१ ] इति मालावचनात् " ते लुग् वा" [३ । २ । १०८ ] इति उत्तरपदलोपात् ताम्रः पिकः तद्वस [ तद्वद् असति शोभ तेक्विपि-मधुरभाषया-.. ताम्राः । पुनः किं० ' अयि गतौ' [७९० ] अयते विपि “य्वो प्वय" [४ । ४ । १२१] इति यलोपे, "हस्वस्य तः पित्कृति " [४ । ४ । ११३ ] इति तोऽन्ते अत् । अत् यात्री । कथम् ? प्रति लक्षीकृत्य, कम् ? नखमम् जात्यामेकवचने नख एव मश्चन्द्रः तम्--चन्द्रसदृशान् नखान्-श्रयन्तीत्यर्थः । पुनः किं० अवति श्रितान् इति क्विपि ऊः श्रितपालको यो हः शिवः तमेव शल्कं शरणम् आख्यान्ति णिजि क्विपि प्रत्यूहशल्काः शिवभक्ताः, त एव “ अवीः प्रकाशः आदित्यः भूमिः पशुः " [ उणादिसूत्र-७११] इत्युणादिवचनाद् अवीः प्रकाशस्तं कुर्वन्तीति णिजि क्विपि वस्योट् स्यादिति विचि अवि प्रकाशकारीणि यानि भानि नक्षत्राणि तेषु प्रकृष्टा उषा रात्रिस्तद्वत् इन्धे दीप्यते क्विपि प्रत्यूहशलभप्लोषेत् अत्र “व्योः " [१ । ३ । २३ ] इति वैलोपः । “ पदस्य" [२ । १ । ८९ ] इति कॅलोपः । पुनः किं० ईप्सतीति क्विपि “ पदस्य" [२।१ । ८९ ] इति सलोपे ईप् इच्छुः, केषाम् ? रदिनो हस्तिनः तेषाम् ई शोभा ताम् । 'मैं शोषणे' [ ४७ ] पायन्ति शोषयन्ति विवपि रदीपाः सिंहाः-पार्वत्या पूज्यत्वेन तदाश्रिततया तद्वाहनस्यापि पूज्यत्वाद् बहुवचने मनस्तालाः तेषां रदीपाम् । पुनः किं • कुं पृथ्वीं राति ददातीति क्विपि कुराः पृथ्वीदात्री । कस्य ? यतेः कस्यचित् तपस्विनः तदाराधकस्येत्यर्थः ॥९३॥ इत्यर्थत्रयेण पार्वती व्यावर्ण्य सूर्यं वर्णयति-तथाहि सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङ्करायते ॥९४॥ ['सिद्धये वर्धमानः स्तात् ताम्राऽऽयन्न ! « ! मण्डली । प्रत्यूहशलभप्लोषे दीर्घदीपांकुराय ते ॥९४॥] १ “ अवीः प्रकाशः आदित्यः भूमिः पशुः राजा स्त्री च" इत्येवं तत्र निर्देशः । २ 'अव्' शब्दस्य नपुंसकलिङ्गे प्रथमाया बहुवचनम् । ३ 'अव्' शब्दस्य वलोपः । ४ ‘शल्क' शब्दस्य कलोपः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148