Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 137
________________ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली। प्रत्यूहशलभप्लोषे दीपदीपाङ्करायते ॥१०४॥ [सिद्धयेवर्धमानस्ताऽत्ताम्रा यन्न ! खमण्डेली। प्रत्यूहशलभप्लोषे दीर्म ! दीपाङ्कराय ते ॥१०४॥] [१ सिद्ध- + या + ई = सिद्धये । अनेन एकारान्तपदेन 'वर्धमान'पदस्य विशेषणसमासः+सिद्धयेवर्धमानः-प्रथमान्तम् । अत्र वर्धमानपदम् विष्णुवाचकम् । २ स्तन्+क्विप्% स्तन्-प्रथमैकवचने-स्ता इति मेघविशेषणम् । स्ता + अत् + ताम्र + आस् = स्ताऽत्ताऽऽम्राः + अन्न = स्ताऽक्ताऽऽम्रायन्न । स्ताऽत्ताऽऽम्राः प्रथमान्तम् । इदमपि मेघविशेषणम् । ३ अन्न !। ४ ख+मण्ड+ली खमण्डलीः-खमण्डली । ५ प्रति + ऊह + शरभ = प्रत्यूहशलभ, तेषां प्लोष प्रत्यूहशलभप्लोषे सप्तम्येकवचनम् । ६ दीप ! इति संबोधनम् 'अन्न' इत्यस्य विशेषणम् । ७ चतुर्थ्यन्तम् । अत्र 'दीपाङ्कुराय भव' इत्यर्थसूचनाय 'भव' इति क्रिया अध्याहार्यां । ८ ता + ईतेः प्रथमैकवचनम् ।] व्याख्या-हे अन्न ! मेघ ! हे प्रत्यूहशलभप्लोषे दीप ! प्रतिकूलः स्वगर्जिते प्रतीप ऊहो मनोऽभिप्रायो येषां ते प्रत्यूहशरभा अष्टापदास्तेषां प्लोषे विनाशे दीयो दीप्यमानस्तस्य सं०, मेघस्य शरभवैरित्वात् । त्वं दीपाङ्कुराय दीप्यत इति "नाम्युपान्त्य०" [५।११५४] इति के दीपः-दीप्यमानः-योऽङ्कुरःप्ररोह अर्थाद् वनस्पतीनाम् तस्मै भव इति सम्बन्धः । त्वं किं० सिद्धा जगत्प्रतीता या या लक्ष्मीस्तामीयते कामकेलये गच्छतीति क्विपि सिद्धयेयों वर्धमानो विष्णुरिव सिद्धयेवर्धमानः श्यामवर्णत्वात् । तथा 'स्तनयं गर्जति क्विपि सौ “नि दीर्घः' [१।४।८५] इति दीर्धे "नाम्नो नः०"[२।१।९१] इति नलोपे स्ता गर्जन् विशेषणसमासे सिद्धयेवर्धमानस्ता । पुनः किं० आत्ताम्राः न विद्यते त् तकारो यत्र स अत् यस्ताम्रः, एतावता आम्रस्तम् आसयति शोभयति जलसेकेनेति आत्ताम्राः । पुनः किं० स्वस्य सूर्यस्य मण्डम्शोभाम्-'लीण द्रवीकरणे' [१९४२] युजादित्वात् णिचोऽभावे लयति विशृणाति क्विपि खमण्डलीः । पुनः किं० तां लक्ष्मीम् ईयते गच्छतीति क्विपि तेः ॥१०४॥ मेधं व्यावर्ण्य सहकारं वर्णयति-तथाहि सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाकुरायते ॥१०५॥ [ सिद्धयेवर्धमानस्तात् ताऽऽम्रा" ! यन्नखमण्ड ! ली। प्रेत्यूहशलभप्लोषेदीप ! दीपाङ्कुरायतेः ॥१०५॥] १ अत्र 'गर्जति' इत्यस्य संदर्भात् 'स्तनति' इति उचितम् अन्यथा-'स्तनय' इत्यस्य स्वीकारे'स्ता' शब्दो न सेत्स्यति। २ यद्यपि लिखितपुस्तके 'आशयति' पाठः परन्तु तेन 'आः' इति कदापि न सेत्स्यति ततः अत्र संशोध्य 'आसयति' इति पाठः स्वीकृतः । ३ 'अत् + ताम्र:= भत्ताम्रः' स्यात् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148