Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 142
________________ ११३ कर्म । ७ न निषेधवाची। ८ ख+मण्डल+क्या+विवर -खमण्डला-सप्तम्या एकवचने-खमण्डलि।९ प्रति+ऊह-प्रत्यूह ! संबोधनम् । १० शलभ ! संबोधनम् । ११ सप्तम्या एकवचनम् । १२ दीप्र+दीप+अङ्कुर+आयत-दीप्रदीपाङ्कुरायते सप्तम्या एकवचनम् । ] . ___ व्याख्या-हे शलभ ! पतङ्ग ! हे प्रत्यूह ! प्रतिकूलः ऊहो यस्य स प्रत्यूहः तस्य सं० । त्वं दीपा दीप्यमाना ये दीपाङ्करास्तेषामायतं विस्तारं तस्मिन् दीप्रदीपाङ्कुरायते रायं स्वर्णम् न अव 'अव रक्षण.' [४८९] इति अवगमार्थात पञ्चम्या हो नस्य निषेधार्थत्वात् मा अवगच्छ-इत्यर्थः । यतः रायं किम्भूताम् ? 'अट्टि हिंसाऽतिक्रमयोः' [६७४] इति अतः क्विपि भावे तलि अत्ता हिंसा, तां हिंसामेवेत्यर्थः । अर्थात् तवैव दीप्रैदी० । किम्भू० सिद्धा सम्पन्ना या लक्ष्मीर्यस्य तत् सिद्धयम् लक्षणया समर्थमित्यर्थः । कस्मिन् ? प्लोषे दाहे अर्थात् तवैव । पुनः किम्भूते ? खमण्डलि खमण्डलं सूर्यमण्डलं तद्वदाचरतीति क्यङि, क्विपि तयोर्लोपे खमण्डलाः तस्मिन् "लुगातोऽनापः" [२ । १ । १०७] इति आलोपे खमण्डलि मार्तण्डमण्डलसमाने इत्यर्थः । त्वं किम्भूतः ? ऋद्धो यो मानोऽभिमानस्तेन स्तनयति इव-गर्जतीव-इति क्विपि सौ “नि दीर्घः' [१ । ४ । ८५] इति दीर्घे “दीर्घड्याब्-व्यञ्जनात् सेः" [१ । ४ । ४५] इति सूत्रेण सेोपे "नाम्नो नोऽनह्नः'' [२ । १ । ९१] इति सूत्रेण नलोपे ऋद्धमानस्ता-अहङ्कारवान्- इवेत्यर्थः । पुनः किं० ईरिक् गति-कम्पनयोः' [१११५] इति धातोः ईर्ते कम्पते इति वाक्ये क्विपि ई: कम्पमानः-इत्यर्थः ॥१०९॥ शलभं व्यावये शरावं वर्णयति-तथाहिसिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कःरायते ॥११०॥ [सिद्धये वैधमानः स्तात् ताम्रायन्नखैमण्डलीम् । 'प्रत्यहंशलभप्लोषे दीमदीपाङ्करायते ॥११०॥] [१ चतुर्थ्यन्तम् । २ प्रथमान्तम् एकवचनम् । ३ क्रियापदम् । ४ ताम्र+क्य+क्विप्= ताम्राः । ५ अन्न+ख+मण्डलीम्-अन्नखमण्डलीम्-द्वितीयान्तम्। ६ प्रति-आश्रित्य । ताम्रास्। अन्न. ताम्रायन्न० । ७ ऊहशलभप्लोषे सप्तम्या एकवचनम् । प्रति+ऊ+ह+शर+भस्-प्रत्यूहशलभ-प्रत्यूहशलभस्य प्लोषः प्रत्यूहशलभालोषः अस्य सप्तम्या एकवचनम् । ८ दीप्रदीपाङ्कुरायतेःदीप्र+दीप+अङ्कुर+आयतिः-अस्य षष्ठ्या एकवचने रूपम् । ] व्याख्या-वर्धमानः शरावः अन्न धान्यं, तस्य खानि खण्डानि तेषां मण्डली श्रेणी तां प्रति आश्रित्य सिद्धये-पाकाय-स्तादिति सम्बन्धः । कस्मिन् सति ? प्लोषे १ 'हिंसाम् एव' इति पाठापेक्षया 'हिंसाम् अव' इति पाठः समीचीनभावसूचकः अर्थात् दीपसमूहे स्वर्ण न अवगच्छ किन्तु हिंसाम्-आत्मनः हिंसाम्-आत्मनः हिंसारूपम् रायम् अवगच्छ । २ दीप्रदीपाङ्कुरायते तवैव हिंसां अवगच्छ। ३ हे शलभ ! कम्पमानस्त्वम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148