Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad
________________
ताप-दाहे इत्यर्थः । कस्याः ? दोपः-अग्निः-तस्य दीपाङ्कुराः कान्तिप्ररोहाः, तेषाम्आयतिः विस्तारस्तस्याः सम्बन्धिनि इत्यर्थः । वर्धमानः किं ताम्रवदाचरतीति क्यङि । क्विपि, तल्लोपे “य्वोः प्वय” [४ । ४ । १२१] इति यलोपे ताम्राः । 'ऊयैङ् तन्तु. सन्ताने' [८००] इत्यत क्विपि ऊः सम्बद्धीभवन् यः हः दारु, शरः-तृणविशेषः, तौ 'भस् भर्त्सन-दीप्त्योः ' [५५१] इत्यतो बभस्ति-भर्त्सति-इति विपि ऊहशलभो यः प्लोषो दाहः तापः, तस्मिन् ऊहशलभप्लोषे ॥११०॥
.. इति कांचन अर्थान् प्रकीर्णकान् प्रादुर्भाव्य ग्रन्थसमाप्ति चिकीर्षः यस्य सम्यगवगमेन विद्वज्जनमनस्सु नानाविधानेकार्थसमुज्जम्भणं भवति तदेव व्याकरणं वर्णयति-तथाहि
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥१११॥ [सिद्ध' ! ये ! वर्धमान स्तात् ताम्रीयन्न खमण्डली ।
प्रत्यूहशलभ ! प्लोषेदीमदीपङ्किरायतेः ॥१११॥] [१ हे सिद्ध ! संबोधनम् । २ या+ई-ये इदमपि एकारान्तम् संबोधनम् । ३ वर्धमानम प्रथमान्तम् , अनुस्वारो न गणनीयः । ४ क्रियापदम् । ५ त+अम्+रे+अन् ताम्रायन् प्रथमा. न्तम । ६ नः षष्ठ्यन्तम्। ७ ख+म+अम+लखमम्+ल-खमण्ड+ली खमण्डलीः प्रथमान्तम् ८ प्र+ति+ऊह-अस्=प्रत्यूहस्-प्रत्यूहरु+अल+भ ( 'भा' धातोः 'भ' इति) प्रत्यूहशलभ ! संबोधनम् । ९ प+ल+ओ+ष-इति-प्लोषेत् प्रथमान्तम् । १० ई+प्रदी+पा+आम ईप्रदीपाम षष्ठीबहुवचनम् । ११ कुः प्रथमान्तम् । १२ आयतेः षष्ठयन्तम् ।।
__व्याख्या-'सिद्धहेमचन्द्रम्' इत्यभिधानात् "ते लुगू वा" [३ । २ । १०८] इत्युत्तरपदलोपात् सिद्धं सिद्धहेमचन्द्रं व्याकरणम् तस्य सं० हे सिद्ध ! श्रीहैमव्याकरण ! । तथा 'यांक प्रापणे' [१०६२] इति याघातुम् ईयसे श्रयसीति क्विपि येः, तस्य सं० हे ये ! अत्र "भदेतः स्यमोः०" [१ । ४ । ४४] इति लुकू । तथा प्रेण उपसर्गेण उपलक्षणत्वात् अन्यैरपि, तिः उपलक्षणत्वात् परस्मैपदम् "उपसर्गादस्योहो वा" [३ । ३ । २५] इति प्रतिपादितं य॑योस्तौ प्रती यौ ऊहशौ श-सयोरैक्यात् ऊह च अस् च ऊहसौ धातू यस्मिन् तत् प्रत्यूहस् । अत्र 'असू' इति धातुग्रहणात् "सो रुः" [२ । १ । ७२] इति रुत्वाभावः, तथा 'अली भूषण' [९१९] इति अल्पातुस्तेन भातीति "क्वचित्" [२।१।१७१] डे अलभं प्रत्यूहश च तत्
१ तस्याः-आयतेः संबन्धिनि दाहे । २ यद्यपि प्रतौ कोसनार्थान्' इत्येव स्पष्ट लिखितम् परन्तु तस्य स्थाने अस्माभिः संशोध्य सूचितः पाठः अत्र निर्दिष्टः । ३ 'ति'प्रत्ययस्य परस्मैपदित्वात् अत्र 'ति'पदेन परस्मैपदस्य सूचनम् । ४ ययोः धात्वोः अर्थात् 'ऊहू-अस्' धात्वोः ३ । ३ । २५ । सूत्रेण पक्षे परमैपदं सूचितम् तो द्वौ धातू अत्र ग्राह्यौ-इति आशयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 141 142 143 144 145 146 147 148