Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 141
________________ ११२ संबोधनम् । ४ दीप्रदीपाङ्कुर + अस् = दीप्रदीपाङ्कुरास् । ५ अत + ईम् = अतें • पां रास् + अतें = • पाङ्कुरायतें = • पाङ्कुरायते । अत्र 'अत' इति 'अत्'धातोः पञ्चम्या द्वितीयपुरुषैकवचने क्रियापदम् ।] व्याख्या-हे उषे ! रात्रे ! त्वं ई': शोभा-कर्म अत सततं गच्छेति सम्बन्धः । त्वं किम्भूता ? सिद्धा धनधान्यादिना समृद्धाः पुरुषास्तान् कामक्रीडाथ यान्ति गच्छन्ति "आतो डः०" [५ । १ । ७६ ] इति डे सिद्धयाः कामिन्यस्तासां इः कामस्तेन वर्धमानौ वर्धनशीलौ स्तनौ करोतीति णिजि क्विपि सौ “नि दीर्घः' [ १ । ४ । ८५] इति दीर्घ " दीर्घयाब्०" [१। ४ । ४५] इति सिलोपे “नाम्नः०" [२।१। ९१] नलोपे सिद्धये र्धमानस्ता-रात्रौ स्त्रियः कामुकमभिसरन्ति, तत्र कामोद्रेकेण स्पृष्टानां स्तनानामपि वृद्धिर्भवत्येवेति रात्रिरेव वृद्धिहेतुरिति । पुनः किं० आत्ता गृहीता या आम्ला म्लानिः कालुण्यमिति यावत् , तया असति शोभते क्विपि आत्ताम्लाः । पुनः किं० अन्नवत् मेघवत् खस्य सूर्यस्य, मण्डलम् भूषाम् कान्तिमिति यावत् , तं लीयते श्लिष्यतीति धातूनामनेकार्थवादाच्छादयति क्विपि अन्नखमण्डली । यथा मेघः सूर्यमाच्छादयति तथा रात्रिरपीत्यर्थः । रात्रावपि सूर्यस्यादृश्यमानत्वात् । पुनः किं० प्रतिकूलो दीपस्वर्णभ्रमकारी ऊहो मनोऽभिप्रायो येषां ते प्रत्यूहाः शलभाः पतङ्गास्तेषां प्लोषे दाहे भवतीति "क्वचित्" [५ । १ । १७१ ] डे प्रत्यूहशलभप्ला । यतः किं० दीप्रैर्दीपाकुरैरससि शोभसे क्विपि दीप्रदीपाकुराः ॥ १०८ ॥ इति रात्रि व्यावर्ण्य शलभं वर्णयति-तथाहि-- सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली। प्रत्यूहशलभप्लोषे दीपदीपाङ्करायते ॥१०९॥ [सिद्धये 'ऽवर्धमानस्ताऽत्ताम् रायं न खमण्डलि । प्रत्यूह ! "शलभ ! "प्लोषे दीपदीपाङरायते ॥१०९॥] । [१ सिद्ध+या-सिद्धयम् द्वितीयान्तम् 'रायम्' इत्यस्य विशेषणम् । २ ईर्-क्विप्-ई: प्रथमान्तम् शलभस्य विशेषणम् । अत्र 'सिद्धयम्' पदे मकारस्य तथा 'ई:' पदे विसर्गस्य उच्चारणाभावे सिद्धय+ई-सिद्धये । ३ 'अव' इति 'अ' धातोः पञ्चम्यां द्वितीयपुरुषकवचने क्रियापदम् । अव-अवगच्छ-जानीहि-इत्यर्थः । अस्य क्रियापदस्य 'न'पदेन अन्वयः ततः न अव-न जानीहि-इति भावः तथा 'अत्ताम्' पदेन सह अपि 'अव' क्रियापदस्य सम्बन्धः, ततः 'अत्ताम् अव'-'हिंसां जानीहि'-इत्यपि द्वितीयोऽर्थः । ४ ऋद्ध+मान स्तन्-ऋद्धमानस्ता। अव+ऋद्धमानस्ता-अवर्धमानस्ता।सिद्धये+अवर्धमानस्ता=सिद्धयेऽवर्धमानस्ता। ५ अटट+क्विप् अत्+ तल-अत्ता-द्वितीयाविभक्तौ अत्ताम् 'अव' इत्यस्य कर्म। ६ रायम् द्वितीयान्तम् 'न अव' इत्यस्य १ अत्र 'ईम् शोभाम् कर्म' इति पाठः उचितः । २ अत्र ‘मण्डम्' इति युक्तम् । 'मण्डल' पदे स्वीकृते मण्डल + ली 'मण्डलली' इत्येव भवेत् , 'मण्डली' इति तु न भवेत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148