Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 140
________________ न गच्छेः ? अपि तु गच्छेत् एव त्वन्मार्गत्वात् तस्याः। त्वं किं० दीप्रा ये दीपाङ्कुरास्तान् अस्यसि इति क्विपि दीप्रदीपाङ्कराः दीपविध्यापकत्वात् । पुनः किं० 'षिधू गत्याम्' [ ३२० ] सेघसि इति क्विपि सित् गामुकः । कथम् ? प्रति लक्षीकृत्य । किं ? ताय सन्तान-पालनयोः [ ८०६ ] इति तायन्ते पालयन्ति इति क्विपि ताः पालका रक्षायुक्ता तैः आत्तं पालनाय आश्रितं यत् आप्रैवृक्षविशेषैः उपलक्षणाद् अन्यैरपि असते शोभते क्विपि तात्ताम्रा वनम् ,तल्लक्षीकृत्येति । अथवा तकारम् 'अत सातत्यगमने [२७९] णिगि आतयति गमयति दूरीकरोति इति यावत् क्विपि तात् यः ताम्रः-एतावता आम्रः तैरसतीति, शेषं पूर्ववत् । वने हि वातः प्रचुरो भवतीत्येवं वर्णनम् । त्वं किम्भू० 'हिंट गति-वृद्धयोः' [ १२९५ ] इति अतः "युवर्ण." [ ५ । ३ । २८ ] इति अलि हयःगमनम् तमीप्सतीति क्विपि सौ “पदस्य" [२।१ । ८९ । इति सलोपे “धुटस्तृतीयः" [२।१ । ७६ ] इति पस्य बत्वे हयेव् गमनेच्छुः । कस्मिन् ? 'अव रक्षण'[४८९] इति इच्छार्थात् क्विपि ऊः इच्छा तया हन्ति गच्छति क्विपि “अहन्-पञ्चम०" [ ४ । १ । १०७ ] इति हन्वर्जनाद् दीर्घाभावे ऊहा यः शलभः श्वावित्-तस्मिन् स्वजातितया एकत्र निवासितया वा पुष्णाति स्निह्यति इति अचि ऊहशलभप्लोषो मृगः तस्मिन्-वायुमंगवाहनम् ततस्तत्र गमनेच्छुरित्यर्थः । पुनः किं० आ समन्ताद् ऋद्धम् "अवर्णस्येवर्णादिना०"[१।२।६] इति अरि अर्द्धम् । 'माङ्क मान-शब्दयोः' [११३७ ] इत्यतोऽनटि मानः शब्दो यस्य स अर्घमानः एतावता प्रोच्चैर्वान् इत्यर्थः ॥ १०७ ॥ इति वातं व्यावर्ण्य रात्रि वर्णयति-तथाहि सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङ्करायते ॥ १०८॥ [सिद्धयेवर्धमानस्ताऽऽत्ताऽऽम्रायन्नैखमण्डली । प्रत्यूहशलभप्लोषे ! 'दीपदीपाङ्कुरायते ॥१०८ ॥] [१ सिद्ध + या + ड = सिद्धय + ई सिद्धये वर्धमानस्तन + णिच् +क्विपू । स्तन् = स्ता । सिद्धयेवर्धमान + स्ता = सिद्धये वर्धमान स्ता + आत्त + आम्ला + अस् = सिद्धयेवर्धमानस्तात्ताम्राः । अत्र 'वर्धमान' पदं स्तनस्य विशेषणम् तेनैव च सह समस्तम् । २ अन्न+ख + मण्ड + ली = अन्नखमण्डली । . स्तात्ताम्राः + अन्न • = ० स्तात्ताम्रायन्न० ।३ प्रति ऊह + शलभ = प्रत्यूहशलभप्लु) + ड= प्ल' । प्रत्यूहशलभ । प्ला + उषे = प्रत्यूहशलभप्लोषे ! १ वायोमगो वाहनम् इति अथवा वायुमंगवाहनः इति पाठः समुचितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148