Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 138
________________ १०९ [१ ई + वन् + एवन् + ऋद्ध + मान = ए वर्धमानः । सिद्धः + एवर्धमानःसिद्धयेवर्धमानः प्रथमान्तम् । २ स्तात् क्रियापदम् । ३ तन् + विच = ता प्रथमान्तम् । ४ आम्र! संबोधनम् । ५ 'अ' वाक्यालङ्कारे ! ता + आम्र + अ = ताऽऽम्रा । ६ यत् 'यस्माद्' अर्थे । ७ नख + मण्ड = नखमण्ड ! संबोधनम् । ८ लीः प्रथमान्तम् । ९ प्रति अव् = प्रत्यू + ह + शर+ भ = प्रत्यूहशरभ = प्रत्यूहशलभ + प्लोष + ई = प्रत्यूहशलभप्लोषे + दीप्र = प्रत्यूहशलभप्लोषेदीप्र ! इति अखण्ड संबोधनम् । १० दीप + अङ्कर +. आयतेः = दीपाङ्कुरायतेः । ] व्याख्या-हे आम्र ! सहकार ! तथा हे नखमण्ड ! नखप्राया फलादिनाऽल्पत्वात् "मण्डा त्वामलक्याम्" हैम० अने० सं० द्विस्वरका ० श्लो० १४०] इत्यनेकार्थवचनात् मण्डा आमलकीवृक्षो यस्मात् स नखमण्डस्तस्य सं० । तथा हे प्रत्यूहशलभप्लोषेदीप्र ! प्रतिपूर्वाद् 'याचना' अर्थात् अवतेः क्विपि प्रत्यूर्याचकोऽर्थात् फलादिश्रियः, तस्य हो हस्तः स एव शराज्जलाद् भवतीति "क्वचित्" [५।१।१७१] डे शरभम् कमलं हस्तकमलं तत् 'प्लुष्श् स्नेहन-सेचन-पूरणेषु' [१५६२ ] इति पुष्णातीति पूरयतीति कर्मणोऽणि प्रत्यूहशलभप्लोषी या ई फलादिका श्रीः तया दौप्रो दीप्यमानस्तस्य सं० । स्वम् आ समन्तात् ईयन्ते गच्छन्ति वनि एवानः पन्थास्तेषु ऋद्धः सुच्छाया-अप्-पर्णादिना समृद्धो मानः पूजा यस्मात् स एवर्धमानः 'स्तात्' इति क्रियासम्बन्धः । त्वं किम्भूतः ? 'विधौ शास्त्र-माङ्गल्ययोः' [ ३२१ ] इति सेधति स्म'गत्यर्थाकर्मक०"[५ । १ । ११] इति क्ते-सिद्धो माङ्गल्यभूतः । पुनः किम्भूतः ! तनोतीति विचि ता विस्तारकः, कस्याः? दीपाङ्कुरायतेः दीप्यन्त इति "नाम्युपान्त्य." [५ । १ । ५४ ] इति के दीपाः प्रदीप्यमाना ये अङ्कुराः प्ररोहास्तेषामायतिर्विस्तारः तस्याः । पुनः कि० लीयते इति क्विपि लीः श्लिष्यन् कामो यस्मात् स लीः । आम्रादपि हि कामो दीप्यते ।। १०५ ॥ इति सहकारं व्यावी निम्ब वर्णति-तथाहिसिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली प्रत्यूहशलभप्लोषे दीपदीपाङ्करायते ॥१०६॥ [सिद्धये वैधमा न: स्तात् ताऽऽम्रा यन्नखम् अण्डलीः । प्रत्यूहशलभप्लोषे दीपदीपाङ्करा यतेः ॥१०६॥] [१ चतुर्थ्यन्तम् । २ व + ऋद्ध + मा = वर्धमा - इदं पदं 'निम्ब'शब्दसंबन्धिनम् अन्तिमम् वकारम् अर्थात् बकारम् सूचयति-प्रथमैकवचनम् । ३ नः षष्ठीबहुवचनम् । ४ स्तात् क्रियापदम् । ५ ता + आम्र + अस् - ताम्राः-प्रथमैकवचनम् । ६ इ + अङ्ग = यन् प्रथमैकवचनम् । इदं पदं 'निम्ब' शब्दगतम् आद्यं निवर्ण सूचयति । ७ अखम् प्रथ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148