Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad
________________
तत्पदृप्रकटाम्भोज-प्राभातिकविभापतिः । भाति विश्वातिशायिश्रीश्रीलक्ष्मीसागरश्चिरम् ॥५॥ सरिः सोमजयाद्वानः स्थानमानन्दसंविदाम् । द्वितीयोऽप्यद्वितीयश्रीविशेषगुणशेखरः ॥६॥ पट्तांगममर्मधर्मसमयपोन्मथ्यजाइयप्रथः, साक्षाल्लक्षणवेदिवारणघटासंघट्टघण्टापथः । आसीद वाचकनायकः सुकृतिनामानन्दनः स्यन्दनः, सर्वाङ्गीणगुणश्रियां युगवरश्चारित्ररत्नो गुरुः ॥७॥ जिनसुन्दरशिष्यः सन् युक्तं यो जिनसुन्दरः । कुतुकं यन्न कं चक्रेऽर्जिनं श्रीजिनसुन्दरम् ॥८॥ स्पष्टाऽष्टादशलक्षणाक्षतमतिप्राग्भारसारस्वतोद्गारस्तारकवारजित्वरयशःसम्भारविश्वम्भरः । तच्छिष्यः प्रतिपक्षपर्वतपथत्पक्षच्छिदाखण्डल:, क्षोणीमण्डलमण्डनः स जिनमाणिक्यो गुरुर्गीयते ॥९॥ बुद्धिः का तव बौद्ध ! शुद्धमैथि रे ! नैयाँस्तु नैयाय(यि)क ! व्याख्येयोऽसि न साङ्ख्य ! सैष विदुषां सीमा न मीमांसकः। दूरं दूरमरे विशन्तु विवरे यद्वा गिरेगहरे, यस्माज्जल्पभरेऽपि जातु जिनमाणिक्यो न शक्यः परैः॥१०॥ हार्षी चित्तान्यहार्षीन्नहि बहुविदुषामाभिनन्दी य बन्दी, सपाणी स्यान्न बाणी न च रुचिरतया चाचलीत्याचली वाग। मायूरी कर्णपूरी भवति न सुतरामामरी पामरी यद्,
वाचः श्रीवाचकेन्द्रो जनयति जिनमाणिक्यनामाभिरामः ॥११॥ १ 'अजिनयोनि' शब्दः हरिणपर्यायः । ततः "ते लुग वा" ।३ । २ । १०८ । इत्यनेन 'अजिन'शब्दोऽपि हरिणपर्यायः 'ततः कम् अजिनम्-हरिणम्-जिनसुन्दरं न चक्रे अपि तु समस्तमपि अजिनं जिनसुन्दरं चक्रे इति कुतुकम् । तत्परिहारः एवम्-अजिनम् अजिनानुयायिनम् के न जिनसुन्दरं चक्र ? अपि तु सर्वमेव च । अथवा अजिनम-चर्म । लक्षणया कचर्मवन्तं जिनसुन्दरं न चक्रे ? सर्वमपि चर्मवन्तं तथा चक्र इति आशयः । २ 'शुद्धपथि' इत्येवं सप्तम्यन्तं पदम् अर्थप्रद भवेत् । ३ न एयाः-न आगच्छेः -इति आशयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 143 144 145 146 147 148