Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad
________________
११७ भाष्यं साक्षितयां विधाय सुधियो येऽन्वर्थमात्रं जगुः, ये वाऽसंशयिताश्च तेन किल तास्तेनैष तेनेऽञ्जलिः। ये लक्षार्थसमर्थनप्रतिदिनव्यग्रात्मनस्तेष्वयं, सन्नद्धो भवतीति रीतिरनघा श्रीवाचकाधीशितुः ॥१२॥ स्थानस्थानशतार्थीति, यथार्थाहानयोगतः । यो गतो जगति ख्याति, प्रति सोमप्रभादिति ॥१३॥ चारित्ररत्नवाचकचरणपरीचारचारुचरितेन । रचिता तेन शतार्थी, सतां कृतार्थीकरोतु मनः ॥१४॥
युग्मम्] व्यालाधीशमृणालशालिनि रजोजिद्भानुभाजालिनि, प्रोद्यदिग्दलमालभारिणि नभोभृङ्गौघशृङ्गारिणि । यावद् राजमरालति प्रतिकलं राजा द्विपक्षी दधत्, तावच्छास्त्रमिदं विदम्भहृदयानन्दमदं नन्दतात् ॥१५॥ निधि-गुण-तिथि १५३९ मितवर्षे हर्षेण विनिर्मिता प्रशस्तिरियम् । जिनमाणिक्यगुरूणां शिष्यभुजिष्येण विजयेन ॥१६॥
॥ ग्रन्थाग्रम् १६९७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 144 145 146 147 148