Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 126
________________ ९७ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीमदीपाङ्करायते ॥९२॥ ['सिद्धये वर्धमा नैः स्तात् ताम्रायऽऽन्नखमण्डली । 'प्रत्यहशलभप्लोषे दीदीपां कुरायते ॥९२॥] [१ चतुर्थ्यन्तम् । २ उअर्ध+मा-वर्धमा प्रथमान्तम् । ३ नः षष्ठी। ४ स्तात् क्रियापदम् । ५ आयत्ति+णिच्+क्विप-आयत् । ताम्र+आयत्-ताम्राऽऽयत्+नखमण्डली+ई-ताम्राऽऽयन्नखमण्डलीः ताम्राऽऽयन्नखमण्डली प्रथमान्तम् । ६ शरभू+णिच+शरभः। 'प्रत्यूह' पदं प्रतिक्षणवाचकम् । प्रत्यूहशलभप्लोषा-प्रथमान्तम्-अत्र ‘प्लोष'पदं स्नेहवाचकम् । ७ ईदीप्रदीपा प्रथमान्तम् । ८ कुल+आयत+इ=कुलायते:-प्रथमान्तम्-कुरायते । ] __व्याख्या-उकारः अर्धम् अंशो यस्य स वर्षः ईदृशो 'मा' इति वर्गों नास्ति यस्याः सा वर्धमा एतावता उमा पार्वती नः अस्माकम् सिद्धये स्तात्भवतु-इति क्रियासम्बन्धः । किं० " आयत्तिर्वासरे स्नेहे वशित्वे स्थाम्नि सीम्नि वा" [ हैम० अने० सं० त्रिस्व० कां० श्लो० ८४७ ] इति अनेकार्थवचनात् आयत्ति वासरं करोतीति णिजि क्विपि तल्लोपे “ पदस्य" [२ । १ । ८९] इति तलोपे आयत् सूर्यः ताम्रो रक्तश्चासौ आयच्च ताम्रायत् प्राभातिकरविः तत्सदृशी या नखमण्डली नखश्रेणिः ताम् ईयसे श्रयसीति क्विपि ताम्रायन्नखमण्डलीः । पुनः किं० प्रत्यूहशलभप्लोषा ऊहं ऊहं प्रति प्रत्यूह प्रतिक्षणम्, शरभुवम् स्कन्दम्-आख्यातीति णिजि त्रैन्त्यस्वरादिलोपेऽचि प्रत्यूहशरभः ईदृशः । 'प्लुष्शु स्नेहन०' [१५६२] इति घनि प्लोषः स्नेहो यस्याः सा प्रत्यूहशलभप्लोषा । पुनः किं ० अस्य विष्णोर्भार्या ई लक्ष्मी:-कृष्णभार्या सत्यभामाप्रमुखा तद्वद् दीप्रो दीप्यमानो दीप:-कान्तिर्यस्याः सा ईदीपा श्लेषाद् अनुस्वाराभावः । पुनः किं० कुलं शरीरं तस्मिन्नायतो विस्तीर्णः इः कामो यस्याः सा कुलायतेः ॥९२॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्करायते ॥९३॥ [ 'सिद्धये वर्धमा नैः स्तात् ताम्रायन्नखमण्डली। प्रत्यूहशलभप्लोषेद् ! ईदीपाङ्कु"रा यते ॥९३॥] [१ चतुर्थ्यन्तम् । २ उ+अर्ध+मा+वर्धमाः प्रथमान्तम् । ३ षष्ठी । ४ क्रियापदम् । ५ ताम्र+ अस्-ताम्रास-ताम्राः प्रथमान्तम् । ६ अत्-प्रथमान्तम्-अय्+विवर अत् । ताम्रास+अत्=ताम्रायत् । ७ नख-मम् द्वितीयान्तम् । ८ ड+ली-डलीः प्रथमान्तम् । ९ प्रति+ऊ+ह+शल्क-प्रत्यूहशल्क+ अवी+णि+विच्-प्रत्यूहशलव्+ भ-प्रत्यूहशलभ+प्र+उषाप्रोषा-प्लोषा-प्रत्यूहशलभप्रोषा+ १ हैम सूत्रम्-७ । ४ । ४३ । २ अत्र 'ईदीप्रदीपा' इत्येष पाठः समुचितः, तं पाठं बिना 'प्रत्यूहशलभप्लोषेदीप्रदीपां' इति न स्यात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148