Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad
________________
१०१
चन्द्रस्ताम्रो भवतीति । ते तुभ्यं खमण्डली नभोमण्डली न आयत् न आश्रिता ? अपि त्वां श्रितैव । ननु चन्द्रो नभ आश्रयति,न तु चन्द्रं नमः,तत् कथं खमण्डली चन्द्रम् आश्रयति ? उच्यते, आश्रयणं हि सम्बन्धः स चोभयनिष्ठः, ततो यथा चन्द्रो नभः श्रयति, तथा नभोऽपि चन्द्रं प्रति उक्तियुक्तैव । ते किं. दीप्रवत् अग्निवद् दीप्यन्ते इत्येवंशीलाः “नाम्युपान्त्य०" [५।१ । ५४] इति के दीप्रदीपाः,अङ्कुराः नानाविधौषधीनां प्ररोहाः यस्मात् स दीप्रदीपाङ्करः तस्मै दीप्रदीपाश्गय । पुनः कि० उं शिवं प्रति लक्ष्यीकृत्य प्रत्यु या उ:-कान्तिः तस्या हसो हास्यम्-प्रकाश इति यावत् । तं लातीति "आतो डः०" [५ । १ । ७६] इति डे प्रत्यूहशलः । तथा भानि नक्षत्राणि तेभ्यः पुष्णासि स्निह्यसीति विचि भप्लोट तयोर्विशेषणसमासे चतुर्थी प्रत्यूहशलभप्लोषे । चन्द्रस्य भानां पतित्वात् स्नेहकरणम् ॥९६॥
इति चन्द्रं वर्णयित्वा राजानं वर्णयति-तथाहि
सिद्धये वर्धमानः स्तात् ताम्रा यनखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्करायते ॥९७॥ ['सिद्धयेवर्धमानः स्तात् ताम् रोयं न खमण्डली । 'प्रत्यूहेशलभप्लोषे "दीपदीपाम् कुरॊयतेः ॥९७॥]
[१ सित्+हय+इभ-सिद्धये+णिच्+क्विप्-सिद्धयेब्-प्रथमान्तम् । २ अर्द ह+मान अर्धमानः-प्रथमान्तम् । सिद्धयेब्+अर्धमानः सिद्धयेबर्धमानः सिद्धयेवर्धमानः । ३ क्रियापदम् । ४ ताम् प्रसिद्धाम् लक्ष्मीरूपां वा इत्येवमर्थः स्पष्ट एव । ५ रै'शब्दस्य द्वितीयाया एकवचनम् । ६ निषेधवाची । ७ ख+मङ्ग खमन्+ल+ली-खमण्डलीः । ८ प्रति-रायं प्रति इति संबन्धः, अथवा प्रतिः प्रतिकूलार्थेऽपि । ९ ऊ+ऊह+ऊह+शर+भाऊहशरभाः ऊहशलभाः तेषां प्लोषे-सप्तम्या एकवचनम् । १० दा+क्विप्=दीः-प्रथमान्तम्-दाता । ११ द्वितीयान्तम्-'रायम्' इत्यस्य विशेषणम् । १२ कु+राज+ड%कुरा -संबोधनैकवचनम् । कुर+अ+अस्-कुरास । १३ कुरास+अतेः कुरायतेः= कुरायते ।।
___ व्याख्या-कुः पृथ्वी तया राजते "क्वचित्" [५ । १।१७१] डे कुरो राजा तस्य सं० । त्वं तिः चौरापत्यम् न तिः अतिस्तस्य अतेः उत्तमनरस्य रायं द्रव्यं प्रत्याश्रित्य दीर्दाता स्तात्-भव-इति वाक्यम् । रायं किं० ? ताम् प्रसिद्धाम् लक्ष्मीरूपाम् वा-अत्र विरामविवक्षया सन्ध्यभावे न मोऽनुस्वारः । त्वं किं० ? अः कृष्णस्त
१ अस्य प्रतिबिम्ब-फोटो-पुस्तके तु 'अपि त्वां श्रितैव' इति पाठः परन्तु सः 'अपि तु आश्रितैव' इत्येवमपि पठितुं शक्यः । २ 'चन्द्रं श्रयति' इत्येवं चन्द्रं प्रति उक्तिः । ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148