Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 128
________________ [ १ चतुर्थी । २ शराववाची प्रथमान्तम् । ३ क्रियापदम् । ४ प्रथमान्तम् ' मण्डली' इत्यस्य विशेषणम् । ५ ऐ+अत्-आयत्+न-आयन्न । आयन्न ! -संबोधनम् 'ख' इत्यस्य विशेषणम् । ६ ख ! संबोधनम् । ७ प्रथमान्तम् । 'दीप्रदीपां मण्डली' इत्यन्वयः । ८ प्रति+ ऊ+हस+लभ-प्लोष-प्रत्यूहशलभप्लोषे सप्तम्या एकवचमम् । ९ षष्ठीबहुवचनम्-दीप्रदीप+आम्दीप्रदीपाम् । १० कुरा -कु+र+क्य+क्विप्=कुरास्+अ=कुराय । ११ अ-निषेधवाची । ताम्रा न ? किन्तु ताम्रा एव । १२ ते-तव षष्ठी।] ___व्याख्या-हे ख ! सूर्य ! तथा हे आयन्न ! ऐः शिवः तम् अतति सततं गच्छति क्विपि आयत् । नः बन्धः शरीरं यस्य स आयन्नः तस्य सं०, रवः शिवमूर्तित्वात् । त्वं सिद्धये स्तात्-भव-इति क्रियासम्बन्धः । त्वं किं० वर्धमान इव शराव इव वर्धमानः शरावसमत्वात् सूर्यस्य । त्वं किं० सः । स कः ? इत्याह-यस्य ते तव दीप्रदीपाम् दीप्यमानभासाम् मण्डली श्रेणी प्रत्यूहशलभप्लोषे प्रतिपूर्वाद् अवेः कान्त्यर्थाद् भावे क्विपि प्रत्यूः कान्तिः, तस्या हसः प्रकाशः, तं लान्ति "आतो डः०" [५।११७६] इति डे प्रत्यूहशलानि यानि भानि नक्षत्राणि तेषां प्लोषेऽभिभवे, 'अ' इति निषेधे ताम्रा न रक्ता ? अपि तु ताम्रा एवयोऽभिभवितुं यमिच्छति स तं प्रति कोपाध्मातत्वात् ताम्रो भवत्येव । किं० मं० को पृथिव्यां विषये "रस्तीक्ष्णे वैश्वानरे" [ ] इत्येकाक्षरात्-रो वह्निः स इवाचरतीति क्यङि क्विपि, तल्लोपे 'अतः" [४।३।८२] इत्यल्लोपे “य्वोः प्वय०" [४ । ४।१२१] इति यलोपे कुराः पश्चाद् अग्रेतनसो रुत्वे अकारेण रोर्यत्वे संहितायां सिद्धम् । ९४॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्करायते ॥१५॥ [सिद्धये वैधमानः स्तात् ताम्रायन ! ख ! मण्डली । प्रत्युह ! शलभप्लोषेदीदीपाङरायते ॥९५॥] [१ चतुर्थी । २ ऊ+अध+मा+नस्-वर्धमानः प्रथमैकवचनम् । ३ क्रियापदम् । ४ ताम्र+ अस्-ताम्रास । ५ ई+अन्न-यन्न । ताम्रास्+यन्न-ताम्रायन ! संबोधनम् । ६ मण्डल+इन् मण्डली प्रथमा । ७ प्र+ति+ऊ+हा+ड-प्रत्यूहः । संबोधने प्रत्यूह ! । ८ शर+भ+प्र+उषा+ (इ+दा+क्विप्) इदी । शलभप्रोषेदी+ई+प्रदीप शलभप्रोषेदीप्रदीप+अङ्कुर+आयति शलभप्रोवेदीप्रदीपारायति, अस्य षष्ठयेकवचने रायतेः ।] व्याख्या–हे ताम्रायन्न ! ताम्रम् धातुभेदम्-रक्तवर्णत्वात् कात्याअस्यति क्विपि ताम्राः । तथा ई पृथ्वी तस्याम् अन्नं धान्यं यस्मात् स यन्नः । लोके हि "सूर्यो वै वर्षति" [ ] इत्युक्तिः । यदुक्तं रघौ "सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः" । [रघुवं० स० १ श्लो० १८] इति । पश्चाद् विशेषणसमासे ताम्रायन्नः तस्य सं० । तथा हे प्रत्यूह ! प्रकर्षेण तीनां १ अग्रेतनसकारस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148