Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 133
________________ १०४ एव वर्ण्यते । दीपसिद्धौ हेतुगर्भविशेषणमाह-यतः किं० रोयन् गच्छन् नकारो यस्मात् तत् यन्न च तत् नख च यन्नखम् एतावता अखम्-अशून्यम् तैलादिना भृतमित्यर्थः । मण्डलं वृत्ताकारं विद्यते यस्येति “अतोऽनेकरवरात्" [७ । २।६ ] इतीनि यन्नखमण्डली ॥ ९९ ॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली। प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥१०॥ [सिद्धये वैर्धमानः स्तात् ताम्रायन्नैखमण्डली । प्रत्यूहशलभप्लोषे दीम ! दीपाङ्कुरायते ! ॥१०॥] [१ चतुर्थ्यन्तम् । २ वा + ऋद्ध + मान= वर्धमानः प्रथमान्तम् एकवचनम् । ३ क्रियापदम् । ४ ताम्र+ क्यङ् + क्विप् + सताम्रास्-ताम्राः । ५ यद् + न% यन्न + ख + मण्डल +इन् यन्नखमण्डली । ६ प्रति + ऊ + ऊह = प्रत्यूह + शलभ+ प्लोष-प्रत्यूहशलभप्लोष-प्रत्यूहशलभप्लोषे सप्तम्या एकवचनम् । ७ दीप्र!+ दीप + अङ्कुर ! + आय + तायू + क्विप् = दीप्रदीपाङकुरायता - गोपावत् चतुर्थ्या एकवचनम् । अथवा अङकुर + अय + ता= अङकुरायता अस्य चतुर्थ्या एकवचने अङ्कुरायते, 'ता' इति पूर्ववत् साध्यम् ।] व्याख्या-हे दीप ! देदीप्यमान ! हे दीपाङ्कर !-प्रदीप ! त्वं सिद्धये स्तात्-भव इति । त्वं किं० ? ऋद्धो वृद्धो मानोऽहङ्कारो यस्य स ऋद्धमानः 'वा' इवार्थे ऋद्धमान इव साहङ्कार इव । कस्मिन् ? प्रत्यूहशलभप्लोषे ऊः कान्तिरर्थात् प्रदीपस्यैव तां प्रति आश्रित्य प्रत्यूः ईदृशः ऊहो हेमवितर्को येषां ते-प्रत्यूहाश्च ते शलभाश्च प्रत्यूहशलभास्तेषां प्लोषे दाहे त्वं किं तान इवाचरतीति ताम्राः प्रत्ययाद्यानयनं पूर्ववत् । पुनः किं ? अद्शब्दोऽद्भुते अद् अद्भुतकृत् यो नखस्तद्वत् रक्त तेजस्वि च मण्डलम् आकारविशेषो विद्यते यस्य स अन्नखमण्डली । सिद्धये किं० ? अयः शुभकर्म, आयो वा लाभः 'इणक गतौ' [१०७५] "युवर्ण-वृ-दृ०" [५ । ३ । २८ ] इत्यलि, अयो ज्ञानं वा तं तायते रक्षतीति क्विपि चतुर्थ्याम् अयते, आयते वा ॥ १०० ॥ इति अर्थत्रयेण दीपं वर्णयित्वा तदुत्पत्तिनिमित्तम् अग्निं वर्णयति-तथाहि सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङ्करायते ॥१०१॥ ['सिद्धये वैधमानः स्तात् ताम्रायन्नेखमण्डली। प्रत्यूहशलभप्लोषे दीप ! दीपांडुरा य तेः ॥१०१॥] १ अत्र ‘रायन्' स्थाने 'यन् ' इति पाठः साधुः । २ अत्र 'नखम्' स्थाने 'खम्' इति पाठः समुचितः । 'नखम्' इति पाठे' यन्ननखम् इति भवेत् अनिष्टं चैतत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148