Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 124
________________ इति वचनात् । खमण्डली किं० ताम्रा रक्ता । पुनः किं० दीप्रो दीप्यमानः, दीपनं घञि दीपः--कान्तिः यस्याः सा दीप्रदीपा । अनुस्वारलोपः श्लेषात् । कस्मिन् ? " अव रक्षण० ' [४८९] इति दीप्त्यर्थाद्" भ्यादिभ्यो वा" [५ । ३ । ११५] इति क्विपि “ मव्यवि०" [ ४ । १ । १०९ ] इत्यूटि ऊः कान्तिस्तस्याःश-सयोरैक्यात्-हसो हास्यं चाकचिक्यमिति यावत् तं लान्ति “ आतो डः० " [५ । १ । ७६] इति डे ऊह शलानि यानि भानि नक्षत्राणि प्लोषे दाहे तिरस्करणे इत्यर्थः ।।८९॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली। प्रत्यूहशलभप्लोषे दीपदीपाङ्करायते ।।९०॥ [सिद्धयेवर्धमानः स्तात् ताम् रायन ने ख मण्डली।। प्रत्यूहशल अभप्लोषेदी मंदीपां कुरा यते"॥९०॥] १ [ सित्+णिच्+क्विपू=सित्+हय+ई+वर्धमानः-सिद्धये वर्धमानः प्रथमान्तम् । २ स्तात् क्रियापदम् । ३ ताम् द्वितीयान्तम् । ४ रायन प्रथमान्तम् । ५ नः षष्ठी । ६ खमण्डली प्रथमान्तम् । ७ प्रति+उ-प्रत्यु+ऊह+प्रत्यूह+शल्क+णिच्+क्विप्-प्रत्यूहशल-प्रथमा । ८ अ+भू अभ+प्लोष+इन्द+ णिन् अभप्लोषेन्दी-अभप्लोषेदी-प्रथमा । ९ प्रदीप्+आम्-प्रदीपाम् षष्ठी। १० कु+र+असू-कुराः । ११ यते सप्तम्येकवचनम् ।] व्याख्या-कुत्सितं रं कामम् अस्यतीति क्विपि कुराः शिवः, नः अस्माकम्, लक्ष्मीम् रायन् कथयन् स्तात्-भवतु-इति क्रियासम्बन्धः । किं० सितं श्वेतं कुर्वन्तीति णिजि क्विपि सितो धावल्यकृतः हयाः अश्वाः यस्य स सिद्धयश्चन्द्रः । तेन हेतुभूतेन या ई शोभा तया वर्धमानो वर्धनशीलः । पुनः किं० खस्य सूर्यस्य मण्डलं खमण्डलं विद्यते यस्य मूर्तितयेति " अतोऽनेकस्वरात्" [७।२।६] इनि खमण्डली । पुनः किं० उं शिवं प्रति प्रत्यूहो विचारो यस्य स प्रत्यूहः शिवभक्तो जनः तस्य शल्कं शरणं करोतीति णिजि क्विपि तल्लोपे सौ " पदस्य" [२ । १ । ८९] इति कलोपे प्रत्यूहशल । पुनः किं० अः कृष्णः तस्माद् भवतीति " क्वचित् " [५ । १ । १७१ ] डे अभः कामस्तस्य प्लोषो दाहः तस्मिन् । 'इदु परमैश्वर्ये ' [ ६०९] इत्यत इन्दतीति णिनि अभप्लो पेन्दी । अनुस्वाराभावो न दोषाय । नः किं० प्रदीप्यामहे इति क्विपि प्रदीपस्तेषां प्रदीपां दीप्यमानानाम्, कस्मिन् ? यते जितेन्द्रियलोके ॥१०॥ इत्थम् अर्थद्वयेन शिवं व्यावर्ण्य तत्प्रेयसी पार्वती वर्णयति-तथाहि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148