Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad
________________
विशेषणम् । ८ अण्ड+ला+क्विप्-अण्डला+ङि ( सप्तम्येकवचनप्रत्यये ) अण्डलि+ई अण्डली । ९ 'ई' प्रथमान्तम् । १० प्रति+ऊह-प्रत्यूहम्-अव्ययीभावसमासे रूपम्। चित्रकाव्यत्वेन च अत्र 'प्रत्यूह' इति सानुस्वारमपि 'प्रत्यूह' इति अनुस्वाररहितं गण्यम् । ११ श इति 'सः' अर्थे । १२ ल+भ+प्लोष लभप्लोष-सप्तम्येकवचने-लभप्लोषे । १३ दीप्र+दीपाकुर-दीप्रदीपाङ्करा प्रथमैकवचनम्-स्त्रीलिङ्गे । १४ ‘अयि' धातोः आपूर्वकस्य वर्तमानकाले क्रियापदम्-आ+अयते= आयते ।
___ व्याख्या- "भवेत् एर्विष्णुः " [ ] इत्येकाक्षरवचनात् एविष्णुः तस्य सं० हे ए ! विष्णो ! त्वं वर्धमानो महिम्ना वर्धनशीलः । अथ वर्धा वृद्धि गच्छन् माया लक्ष्म्या आनो जीवितं यस्मात् स वर्धमानः स्तात्-भवतु-इति क्रियासम्बन्धः । त्वं किम्भूतः ? सिद्धः प्रसिद्धः। पुनः किं० ? प्रत्यूहशः इत्यत्र श-सयोरैक्यात् सः । सः कः ? इत्याह--यं विष्णुम् ई लक्ष्मीः ताम्रा रक्ता अनुरक्ता सती खं सुखं यथास्यादेवं न आयते ? न आगच्छति ? अपि तु आयत एव । ' उह अर्दने' [५६१] " नाम्युपान्य०" [५ । १ । ५४ ] इति के अहः अर्दकः, उः शिवः, ऊहः अर्दको यस्य स ऊहः कामस्तं प्रति लक्षीकृत्य" लक्षणेनामि-प्रत्याभिमुख्ये" [३।१। ३३] इत्यव्ययीभावे प्रत्यूहम् कामसुखार्थमित्यर्थः । कस्मिन् सति ? अण्डं लाति क्विपि अण्डलाः पक्षिणः तस्मिन् “लुगातोऽनापः" [२ । १ । १०७ ] इति आलोपे अण्डलि पक्षिणि सति । किं० " ल इन्द्रे चलने च" [ ] इति एकाक्षरवचनात् लेन चलनेन भानि नक्षत्राणि प्लोषति-तिरस्करोतीति " कर्मणो० " [५ । १ । ७२ ] अणि भप्लोषः तस्मिन् लभप्लोषे नक्षत्रेभ्योऽपि शीघ्रगामिन्य इत्यर्थः । एतेन सान्ध्यकालो लक्ष्यते । सान्ध्यकाले हि पक्षिणः इतस्ततो गच्छन्ति स्थित्यर्थम् । कामिन्योऽपि च स्वं स्वं भर्तारं प्रति विषयसुखार्थ गच्छन्ति इत्येवम् उक्तिः। ई किम्भूता ? दीपो दीपाङ्कुरः अर्थात् करे यस्याः सा दीप्रदीपाङ्कुरा । तत्र गच्छन्तीनां कामिनीनां प्रकाशहेतवे प्रदीपोऽपि भवतीत्येवंवर्णनम् ॥८७॥
इति वृत्तार्थपञ्चकेन विष्णुं व्यावर्ण्य, तमेव श्रीनेमिनाथशासने प्रसिद्धत्वेन भावितीर्थकरपदत्वेन वा जनरूपेण वर्णयति-तथाहि
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली। . प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥८८॥ [सिद्धये वर्धमानः स्तात् ताऽऽम्रायन्नख ! मण्डली ।
प्रत्यूहशलभप्लोषे दीपदीपाङ्करायं ! ते ॥८८॥ ] [१ सिद्धा+या सिद्धय-सप्तम्येकवचने-सिद्धये । २ वर्धमानः प्रथमान्तम् । ३ स्तात् क्रियापदम् । ४ ताम्र अस ताम्रास+अद्+नख-ताम्रायन्नख | संबोधनम् । ५ मण्डल+क्यन्+क्विप
१ ‘अथवा व?' इति पाठः संगतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148