Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad
________________
९६
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोपे दीमदीपाङ्कयते ॥ ९१ ॥ [ सिद्धये ! वैर्ध ! मा नस्ताऽत्ताऽम्रा ! यैन्नखमन् ! डैली ! ॥ प्रत्यूहशलभप्लोषे ! दी दीपाङ्कुरायते ॥ ९१ ॥ ]
[ १ सिद्ध+या= सिद्धय + आ = सिद्धया । संबोधने सिद्धये ! । २ उ+ अर्ध = वर्ध ! संबोधनम् । ३ मनस्ताल= मनस्त = मनस्त + ( तद्धितीय ) अणू- मानस्त + अत्+ता=मानस्ताऽत्ता + अम्ला + क्विप्= अम्ला=मानस्ताsत्ताऽम्ला=मानस्ताऽत्ताऽम्रा ! संबोधनम् । ४ यत् + नयन्न । ख+मङ्गखमन् । अनयोः पदयोः समासे यन्नखमन् ! | ५ लड+इ+लडि=डलि + ई =डली ! संबोधनम् । ६ प्रत्यूह + शलभ+प्लुष्+अण्=प्रत्यूह शलभप्लोषा - संबोधने - ० प्लोषे ! ७ दीप्र- दीप्रन नः आचार क्विपि पञ्चम्या द्वितीयपुरुषैकवचने क्रियापदम् । ८ दीपाङ्कुरायतेः - पञ्चम्यन्तं नामरूपम् - दीपाङ्कुरायते ।
97
श्लो० २०५ ] इति माला
""
व्याख्या- - सिद्धा शाश्वती निरुपाधिका या ई: लक्ष्मीर्यस्याः सा सिद्धया तस्य सं० हे सिद्धये ! हे वर्ध ! उः शिवः तस्य अर्धम् समोंऽशः तस्य सं० । अत्र " अदेतः स्यमोर्लुक् [ १ । ४ । ४४ ] इति लुक् । तथा हे मानस्तात्ताम्लाः ! " तस्याः सिंहो मनस्तालः " [ हैम० अभि० देवकां० वचनात् मनस्तालः पार्वत्याः सिंहः तस्य " ते लुग् वा [ ३ । २ । १०८ ] इत्युत्तरपदलोपात् मनाः पार्वतीसिंहः तस्य यन् गच्छन् नो बन्धः स्खलनरूपो यस्मिन् तद् यन्न - स्खलनरहितं यथा स्यात् तथा । खे आकाशे मङ्गति स्वशक्त्या गच्छतीति क्विपि सौ " पदस्य [ २ । १ । ८९ ] इति गलोपे यन्नखमन् । " तस्तस्करे क्रोड-पुच्छयोः” [ ] इति एकाक्षरवचनात् तः पुच्छम् क्रोड:- लक्षणया पृष्टम् मेनः तत्र भवा भवेऽणि मानस्ती या-' अत सातत्यगमने ' क्विपि भावे तलि-अत्ता मतिः तया न म्लायसीति क्विपि मानस्तात्ताऽम्लाः, तस्याः सं० । तथा हे यन्नखमन् । तथा हेडली !' लड विलासे ' [२५४ ] " इ-कि- रितव्० " [५ । ३ । १३८ ] इति 'इ' प्रत्यये ड-लयोरैक्याद् व्यत्यये डलिविलासः तम् ईयसे श्रयसीति क्विपि हे डी: । तथा हे प्रत्यूहशलभप्लोषे ! प्रतिकूलः स्ववाहनसिंहविषये प्रतीपः ऊहः - मनोsभिप्रायः - यस्य स प्रत्यूहो यः शरभः शार्दूलः तं प्लोषसि हंसीति " कर्मणोऽणू " [ ५ । १ । ७२ ] इत्यणि प्रत्यूहशलभप्लोषा तस्याः सं० । पार्वत्या वाहनं सिंहः, तस्य शार्दूलो हन्ता इति पार्वत्याः शरभहननवर्णनम् । हे पार्वति ! त्वं दीपाङ्कुरायतेः कान्तिप्ररोहविस्ताराद् 'गम्ययपः० [२ । २ । ७४] इति पञ्चम्यां कान्तिविस्तारं प्राप्येत्यर्थः - दीप्र दीपं सुवर्णादि तद्वदाचर इत्यर्थः ॥ ९१ ॥
46
१ अत्र ' मनस्तः तत्र ' इति पाठः उचितः ।
Jain Education International
""
99
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148