Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 123
________________ ९४ ७ मण्डली :- प्रथमा - मण्डली । ६ प्रत्यूह + शलभ + प्लोषे = प्रत्यूहशलभप्लोषे सप्तम्यन्तम् । पाङ्कुर+क्यङ् + क्विप्= दीप्रदीपाङ्कुराः - E - प्रथमा ८ अ । दीप्रदीपाङ्कुराः + अ = दीप्रदीपाङ्कुराय । षष्टौ । ] व्याख्या -- अ ! विष्णो ! ते तव सिद्धा - शाश्वती मुक्तिरूपा-या लक्ष्मीः यस्य स सिद्धयो जिनः - प्रस्तावात् - श्रीनेमिनाथः तस्मिन् सिद्धये श्रीनेमिजिनविषये “ वर्धमानो वीरजिने स्वस्तिकैरण्डविष्णुषु । शरावे प्रश्नमेदे च" [ हैम० अने० सं० चतुःस्वरकां० श्लो० १५६१ - १५६२ ] इति अनेकार्थवचनात् वर्धमानः प्रश्नभेदः । प्रत्यूहाः प्रतिकूला ऊहाः संशया इति यावत् । त एवं शलभाः पतङ्गास्तेषां प्लो दाहे दीप्रदीपाङ्कुरवदाचरतीति क्यङि, क्विपि, तल्लोपे दीप्रदीपाङ्कुराः स्तात् भवतु इति क्रियासम्बन्धः । हे ताम्रायन्नख ! ता लक्ष्मीः तस्यां विषये आम्रम् सहकारफलम् तद्वद् अतीवमधुररसप्रदत्वात् असन्ति शोभन्ते क्विपि ताम्रांसि अद् आश्चर्यका नखानि नखपदानि यस्य स ताम्रायन्नखः तस्य सं० । तथा मण्डलानि देशान् इच्छति इति क्यनि " क्यनि " [ ४ । ३ । ११२] इति ईकारे क्विपि तल्लोपे [ ४ । ४ । १२१ ] इति यलोपे मण्डली: त्रिखण्डाधिपत्वात् "" "य्वोः ध्वय्० तस्य ॥ ८८ ॥ इति विष्णुं व्यावर्ण्य शिवं वर्णयति - तथाहि Jain Education International सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली | प्रत्यूहशलभप्लोषे दीमदीपाङ्कुरायते ॥८९॥ [ सिद्धेये वैधमा नैः स्वात् ताम्रा यं न खमेण्डली । त्यू शलभप्लोपे "दीप्रदीपां कुरायते ॥ ८९ ॥ ] [ १ चतुर्थ्यन्तम् । २ व ! संबोधनम् । ३ ऋद्ध+मासू = ऋद्धमाः+नः ऋद्धमानः । अत्र प्रथमान्तम् । ४ नः षष्ठी - नः - अस्माकम् । ५ स्तात् क्रिया । ६ ताम्रा प्रथमा ऋद्धमाः • खमण्डली' इत्यस्य विशेषणम् । ७ यम् यं प्रति इति यम् इति द्वितीयान्तम् । ८ न निषेधवाची । अस्य ' कुलायते ' इत्यनेन अन्वयः अर्थात् न कुलायते ? अपि तु कुलायते एव-कुरायते एव । ९ खमण्डली प्रथमान्तम् । १० प्रति यम्' इत्यनेन सह संबद्धम् । ११ ऊ + हस+ल+भ= ऊहशलभ । प्रति+ऊहशलभ = प्रत्यूहशलभ + प् लोषे तथा च इष्टं पदं सिद्धम् । १२ दीप्रदीपा प्रथमाखमण्डली इत्यस्य विशेषणम्। दीप्रदीपा दीप्रदीपां । १३ कुल - क्यङ् + ते = कुलायते = कुरायते । ] व्याख्या - "वो महेश्वरे " [ ] इत्येकाक्षरवचनात् वो महेश्वरः तस्य सं० हेव ! ईश्वर ! स त्वं नः सिद्धये स्तात् - भव- इति सम्बन्धः । त्वं किं० ऋद्धः समृद्धो माश्चन्द्रोऽर्थात् शिरसि यस्य स ऋद्धमाः । अत्र 'मासू' इति शब्दः । सः कः ? इत्याह--यं शिवं प्रति लक्षीकृत्य खमण्डली रविपङ्क्तिर्द्वादशसूर्थी -- इत्यर्थः - र-लयोरैक्यात - कुलं शरीरं तद्वद् आचरतीति क्यङ् इति न कुलायते : न शरीरायते ? अपि तु कुलायते एव । दीप्रदो९ ते " क्षिति- जल पवन हुताशन-यजमाना ssकाश - सूर्य - सोमाख्याः । ईशस्य मूर्तयोऽष्टौ, चिरन्तनैर्मुनिभिराख्याताः ॥ " [] For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148