________________
व्याख्या-सिद्धा सम्पन्ना या लक्ष्मीर्यस्य स सिद्धयस्तस्य सं० हे सिद्धय ! इभ्य ! त्वं कुरायं कुत्सितरायं द्रव्यम् अन्योपार्जितां लक्ष्मी न अष-मा अङ्गीकुर्वित्यर्थः। यतः किं० ई लक्ष्मीस्तस्या वर्षो वृद्धिस्ता' ' मूङ् बन्धने ' [६०१] इत्यतो मैवति बध्नाति विचि गुणे ईवर्धमौः ताम् आ अम्-शसोऽता" [१ । ४ । ७५] इत्यकारे ईवर्धमाम् । अनुस्वाराभावो न दोषाय, चित्रकाव्यत्वात् । एवं सर्वत्र । पुनः किं० 'न (ण) सि कौटिल्ये '[५१ ] क्विपि भावे तलि नस्ता कौटिल्यं तेन आत्तां गृहीताम् । अत्र तु विरामविवक्षया "तौ मुमोर्व्यञ्जने०" [१। ३। १४ ] इत्यनुस्वाराभावः । एवं सर्वत्र । त्वं किं० राः स्वर्ण तद्वदाचरति निजशरीरकान्त्या इति शतरि रायन् । कुरायं किं० खं सुखं तस्य 'मडुङ् वेष्टने' [ ६९२] इति परमते विभा जनार्था इत्यतो घनि मण्डो विभागः पृथक्करणं तं लीयसे श्लिष्यसीति क्विपि खमण्डली ईदृशः इः कामो यस्मात् सकाशात् सा खमण्डली तां श्लेषादनुस्वाराभावः । अत एव किं० इः कामः स एव दीप्रोऽग्निस्तं दीपयतीत्यचि इदीप्रदीपा ताम् इदीप्रदीपाम् । कस्य ! ते तवैव कामाग्निदीपिकामित्यर्थः । त्वं तु किं. अभः कामस्तं प्लोषति दहतीति "क्वचित्" [५ । १ । १७१] डे अभप्लः कामन इत्यर्थः । पुनः किं० प्रतिनिम् ऊहो विचारः ताभ्यां शटति जानातीति तत्त्वातत्त्वमिति क्विपि टस्य डत्वे ड-लयोरैक्याल्लत्वे प्रत्यूहशल् ॥ ७९ ॥
इति श्रीजिनमतानुसारि सर्वं यथाक्रमं व्यावर्ण्य, प्रतिपक्षस्य शिवशासनस्य किञ्चिद् वर्यते । तत्र त्रयो देवाः ब्रह्मा विष्णुमहेश्वरश्च । तत्र प्रथमं ब्रह्माणमेव वर्णयति-तथाहि--
सिद्धये वधमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाकुरायते ॥ ८० ॥ ['सिद्धये वैध ! माऽऽनः स्तात् ताम्रायन्नखमण्डली ।
प्रत्यूह-शल-भ-प्लोषे-दीप-दीपा-ऽङ्कुरायतेः ।। ८०॥] [१-सिद्धये चतुर्थ्यन्तम् । २-व+ऋद्ध-वर्ध ! संबोधनम् । ३ म ! संबोधनम् । “मः शिवः चन्द्रमा वेधाः"-एका. सुधा० श्लो० २७ । अर्थात् हे ब्रह्मन् ! इत्यर्थः । । अन्+घञ= आनः-प्राणभूतः । वर्ध+म+आनः वर्धमानः । ५ स्तात् क्रियापदम् । ६ ताम्र+अस ताम्रास अन्न. ताम्रायन्न० । ७ अन्न+न+मण्डल+णिन् अन्नखमण्डली । ८ प्र+तीव्=प्रत्यू+ह+शर+भ+ (प्र+उषा ) प्रोषा+ई+दीप्र+दीप+अङ्कर आयति-तस्य प्रत्यूहशलभप्लोषेदीप्रदीपाङ्कुरायतेः ।]
१ 'ताम् ' इति उचितम् । २ ‘मवते' इति शुद्धम् । ३ " तौ मुमो व्यञ्जने स्वो" इत्येवं सूत्रस्यास्य शुद्धपाठः । ४ विभाजनार्थः 'इति संशुद्धम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org