________________
८५
व्याख्या-- - तां लक्ष्मीम् ईयते गच्छति श्रयति इति यावत् क्विपि तेः तस्य सं-हे तायिने ! - हे ते ! हे व्यवहारिन् ! सितान् -बंद्धान् बन्दिजनानिति यावत्-आख्याति छोटनबुद्धया इति क्विपि सित् तस्य सं ० हे सित् ! बन्दिजनच्छोटक ! व्यवहारिणो ' बन्दिजनच्छोटक ' इतिबिरुदत्वात् । तथा ऋद्धः समृद्धो यः - " मः शिवे विधौ " [ ] इत्येकाक्षरवचनात् - मो विधिः तस्य अनः शकटं तां तायते वहनेन पालयति क्विपि ऋद्धमानस्ता हंसस्तद्वद् अतति गच्छति क्विपि ऋद्धमानस्तात् तस्य सं० हे ऋद्धमानस्तात् ! | आवां रैचितगतिं रुचिरगते ! आवां तां प्रसिद्धां [ न्या ] योपार्जनेन रायं कुपात्रादिभ्यः प्रधानेन कुराय कुत्सितं रात्वा दत्त्वा न हयेव ? न क्लाभ्येव ? अपि तु पै.... कल्यफलप्राप्त्या क्लाम्येव । अत्र 'हय हर्य क्लान्तौ च ' [ ३९७] इत्यतः सप्तग्यस्मदैर्थैकद्विवचने 'हयेव' इति रूपम् । रायं किं० खं सौख्यं तस्य मण्डलीमिव श्रेणीमिव खमण्डली - श्लेषादनुस्वाराभावः - द्रव्यस्य सुखहेतुत्वात् । पुनः किम्भूतः ? दीप्रो यो दोपः, तद्वत् आचरति क्यनि, तल्लोपे दीप्रदीपा, तां दीप्रदीपां प्रदीपसदृशाम् | कस्मिन् ? प्रत्यूहा विन्ना रागदम्भादयस्त एव शलभाः पतङ्गास्तेषां प्लोषे दाहे अत्र च 'रै' शब्द: ऐदन्तः पुंलिङ्गः स्त्रीलिङ्गः, अत्र तु स्त्रीलिङ्गः । तामित्यत्र विरामविवक्षयाऽनुस्वाराभावः ॥७८॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली | प्रत्यूहशलभप्लोपे दीमदीपाङ्कुरायते ॥ ७९ ॥
[ सिद्धेयेवैर्धमां नस्ताSSत्ताम् 'रायन ने खमण्डलीं । प्रत्यूहशल 'अभप्लोsपेदी मंदीपां कुरायं ते ॥७९॥ ]
[१, सिद्ध+या = सिद्धय । अस्य संबोधने सिद्धय ! | २ ई + वर्ध+मू+विच् - ईवर्धमो = अस्य ओकारान्तपदस्य द्वितीयान्तम् ईवर्धमाम् ३ नस्+तल =नस्ता+आत्ताम् =नस्ताssत्ताम् - द्वितीयान्तम् । 'कुरायम्' इत्यस्य विशेषणम् । ४ रै+क्विप् + शतृ=रायन्--प्रथमान्तम् । ५ न निषेधवाची । ' अष' इति क्रियापदेन सह अस्य संबन्धः -न ' अष ' --न गृहाण इत्यर्थः । ६ ख + मण्ड+ली+इम्= खमण्डलीम् द्वितीयान्तम् । ७ प्रति+ऊह शत्रू = प्रत्यूहशड् = प्रत्यूहशल - प्रथमान्तम् । ८ अभ+प्लुब्+ ड=अभप्लः - प्रथमान्तम् । अभप्लः+अष= अभप्लोऽष । ९ ' अष' इति 'अष' धातोः पञ्चम्यां ' हि ' प्रत्यये रूपम् - " अषी असी गत्यादानयोश्च' [ ९.३१] ।१० इ+दीप्र+दीप + अच् = इदी प्रदीपाम् द्वितीयान्तम् । प्रत्यूहशल+अभप्लोऽष+इदीप्रदीपाम् = प्रत्यूहशलभप्लोऽषेदीप्रदीपाम् । ११ कु+ रायम् =कुरायम् द्वितीयान्तम् ' ईवर्धमाम्' इत्यस्य विशेष्यम् । १२ ते तव । अत्र '० प्रदीपां' इति पदं विहाय सर्वे अनुस्वारा न गणनीयाः ।]
१ संबोधने तायिन् ! इति भवति न तु तायिने, ' तायिने ' इति चतुर्थ्यन्तम्, एवं पाठोऽयमशुद्धः । तथा अत्र प्रसङ्गे 'तायिन् ' अथवा 'तायिने' इति पदद्वयमपि नोपयुक्तम् । २ इदं क्रियाविशेषण प्रतिभाति । ३ अत्र ' प्रदानेन' इति युक्तम् स्थाने 'रत्र अ' इति योज्यम् । अतः 'परत्र अकल्यफल' इति ' ० दर्थे द्विवचने' इति पाठः उपयोगी ।
Jain Education International
For Private & Personal Use Only
४ अत्र निर्दिष्टबिन्दूनां समग्र जायते । ५ अत्र
www.jainelibrary.org