________________
८४
सेधति जानाति तत्त्वातत्त्वमिति क्विपि सित् तत्त्वातत्त्वज्ञः तस्य सं० । तथा अन्नेन खानि इन्द्रियाणि मन्दयति क्विपि सौ अन्नखमन् तस्य सं० हे अन्नखमन् ! श्राद्धा अपि ज्ञाततत्त्वाः स्तोकाहारादिना स्वेतुर्यपालनादिनिमित्तम् इन्द्रियाणि मन्दयन्ति । आवां यतेः साधोः डो ध्वनिस्तस्य ली: श्लेषस्तस्य ई: लक्ष्मीः । 'ट्वें पाने' [२८] इत्यतः सप्तम्यस्मदर्थद्विवचने धयेव - पिबेव - इत्यर्थः । यतो डलीः किम्भूताः । ता लक्ष्मीस्तया आत्ताः स्वीकृता व्यवहारिणः तात्ताः तेषां तेषु वा आम्रवत् सहकारफलवदाचरन्ति क्विपि धातुत्वे अचि तात्ताम्राः श्रोतॄणां मधुरा इत्यर्थः । पुनः किं० तत्त्वातत्त्वप्रकाशकत्वात् दीपाङ्कुराणाम् आः श्रिय इव दीपाङ्कुराः । यतेः किम्भूतस्य ? ऋर्देवमाता तां धयन्ति निजमातृत्वात् "क्वचित्" [ ५ । १ । १७१ ] डे ऋधाः देवास्तेभ्यो मानः पूजा यस्य स ऋधमानः जिनः तं श्रोतॄणामाख्याति णिजि क्विपि तयोर्लोपे ऋधमा तस्य ऋधमानः, पश्चाद् “अवर्णस्येवर्णादिना ०" [१ । २ । ६ ] इति सिद्धम् । यतेः पुनः किम्भूतस्य : प्रपूर्वाद् 'अयि गतौ' [ ७९० ] इत्यतः क्तौ ' य्वोः प्वय्०" [ ४ । ४ ।, १२१ ] इति यलोपे, परमते “अतः” [ ४ । ३ । ७२ ] इत्यल्लोपे प्रतिर्ज्ञानम्, ऊहो विचारः, शरः- उपचारात्- धनुर्विद्या, भानि नक्षत्राणि उपचारात्-ज्योतिषग्रन्थः प्रत्यूहशलभानि प्लवते गच्छति श्रयति यः इति यावत् विचि गुणे प्रत्यूहशलभप्लौः तस्याम् । "एदोद्भ्यां ङसि - ङसो र:" [ १ । ४ । ३५ ] इत्यात्वे सिद्धम् ॥७७॥
इति अर्थद्वयेन श्राद्धं वर्णयित्वा सामान्यव्यवहारिणं वर्णयति तथाहि
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली | प्रत्यूहशलभच्लोषे दीमदीपाङ्गरायते ॥ ७८ ॥ [ सिद्धये वर्धमानस्ताऽत्ताम्रायं नै खमण्डली | मँत्यूहशलभलोषे दीर्घदीपांकुराये ७८ ॥ ]
[१] हे सित् ! संबोधनम् । सित+ णिच् + क्विप् = सित् । २ 'हयेत्र' इति क्रियापदम् सप्तम्या अस्मत्पुरुषस्य द्विवचनम् । ३ ऋद्ध+म = अनस्+ताय् = ऋद्धमानस्ता+अत्-ऋद्धमानस्तात् ! संबोधनम् । सित्+हयेव+ऋद्धमानस्तात्+सिद्धये वर्धमानस्तात् । ४ ताम् + रायम् = ताम्रायम् । ५ न निषेधवाची । न हयेव? अपि तु 'हयेव’' इति आशयः । ६ ख + मण्डलीम् = खमण्डलीम् - 'रायम्' इत्यस्य द्वितीयान्तस्य विशेषणम् - खमण्डली | ७ प्रत्यूह + शलभ+प्लोषे - सप्तम्यन्तम् । ८ दीप्रदीपाम्-द्वितीयान्तम् 'रायम्' इत्यस्य विशेषणम् । ९ कु+रा+क्त्वा = कुराय संबन्धकभूतकृदन्तम् । १० ता + ई + क्विप्= ते इत्येवम् एकारान्त'ते' पदस्य संबोधनम् 'सित्' इत्यस्य विशेषणम् । ]
१- स्वचतुर्थव्रत- ब्रह्मचर्यव्रत - प्रभृतिव्रतपालनादिनिमित्तम् इति आशयः । २ - 'यतेः' इत्यस्य विशेषणत्वेन अत्र 'तस्य' इति युक्तम् । ३ “एदोद्भयां ङसि - ङसो रः " [१।४।३५] इति सूत्रेण रविधानात् अत्र ' इति रत्वे' इति समुचितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org