________________
[१।४ । ४२ ]इति एत्वम् । यथा रात्रौ कमलानि निःश्रीकाणि भवन्ति, तथा अस्मिन् प्रत्यूहा अपीत्यर्थः । तथा हे अदीप्रदीप ! न विद्यते 'दी' इति वर्गों यस्मिन् स अदीः ईदृशश्चासौ प्रदीपश्च अदीप्रदीप ! एतावता प्रपः-रक्षकः-प्राणिनामिति शेषः-तस्य सं० हे प्रप ! रक्षक ! त्वम् अङ्कुर नवीनोद्गतजलादेः प्ररोहवत् आचर-इत्यर्थः । यथा अङ्करो दिनं दिनं वृद्धि याति, तथा त्वमपीत्यर्थः । त्वं किं० सिद्धयेवर्धमानस्तात्ताम्रायन् । सिद्धा सम्पन्ना या लक्ष्मीर्यस्य स सिद्धयः, ईदृशो य इभ्यः सिद्धयेभ्यस्तं धनधान्यादिमनोऽभिमतप्राप्त्यर्थमाख्याति णिजि क्विपि तयोर्लोपे “ पदस्य " [२।१। ८९ ] इति यलोपे सिद्धयेब् ईदृशो यः · अर्द गति-याचनयोः' [ ३०१] इत्यतः क्विपि “ रात् सः " [२ । १ । ९० ] इति दलोपाभावे अ याचकजनः सिद्धयेब, तस्य हो हस्तः सिद्धयेबर्धः तस्मिन् मा लक्ष्मीः “ अनः शकटं भोजनम् अन्नं च" [ उणादिसूत्र ९५२ ] इति उणादिवचनात्-अनो भोजनं यस्य स सिद्धयेबर्धमानाः तस्य भावे तलि सिद्धयेबर्धमानस्ता तस्या आत्तं स्वीकारः तेन न म्लायतीति शतरि सिद्धयेबर्धमानस्तात्ताम्लायन् । कोऽर्थः ? लक्ष्मीसमृद्धमहेभ्यप्रार्थकार्थिसार्थहस्तदत्तलक्ष्मी-भोजनादितया अम्लानः इत्यर्थः । पुनः किं० ? नखैः कृत्वा मण्डं भूषां लीयसे श्लिष्यसीति क्विपि नवमण्डलीः सामुद्रिकशास्त्रोक्तलक्षणनखशोभित इत्यर्थः ॥७६॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपावरायते ॥ ७७॥ ['सिद्धयेवैर्धमानस्ताऽऽत्ताऽऽम्रा यन्नखमन् ! डेली ।
"प्रत्यूह-शल-भप्लो षेदीम ! दोपाङ्करा यते ॥ ७७ ॥] [१ हे सित् ! संबोधनम् । २ धयेव इति 'धे' धातोः सप्तम्याः अस्मत्पुरुषद्विवचनं क्रियापदम् । ३ ऋधमानः षष्ठ्या एकवचनं यतेः इत्यस्य विशेषणम् । ऋ+धा-ऋध+मान+णिच +क्विपू-ऋधमान् तस्य । सित्+धयेव+ऋधमानः सिद्धये वर्धमानः इति । ४ ता+आत्त+आम्र= ताऽऽत्ताऽऽम्राः द्वितीयाबहुवचनम् डलीः इत्यस्य विशेषणम् 'धयेव' इत्यस्य च कर्मरूपम् । ५ अन्न ख+मन्द+णिच्+क्षिप् अन्नखमन् ! संबोधनम् । ० तात्ताम्रास+अन्नखमन् ! तात्ताम्रायन्न खमन् । । ६ डलीः द्वितीयाबहुवचनं कर्म । ७ प्रति+ऊह+शर+भ+प्लु-प्रत्यूहशलभप्लौः तस्य षष्ठ्या एकवचने प्रत्यूहशलभप्लोः । ८ षा+ईषे+दीप्रषेदीप्र ! संबोधनम् । ९ दीपाङ्कराः द्वितीयाबहुवचनम्, डलीः इत्यस्य विशेषणम् । १० यतेः इति पष्ठयन्तमेकवचनम् ।]
व्याख्या-कश्चिदिभ्यः श्राद्धः कञ्चिदिभ्यं श्राद्धं प्रति धर्मालापं करोति-तथाहि -हे षेदीप्र ! इभ्य ! “पः श्रेष्ठे" [ ] इत्येकाक्षरात् षा श्रेठा ई लक्ष्मीस्तया दीप्रः सकल जने दीप्यमानः तस्य सं० । 'षिधू गत्याम्' [ ३२० ] गत्यर्थानां ज्ञानार्थत्वात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org