________________
[१२५२] ईयते श्रयतीति क्विपि ताम्रायन्नखमण्डलीः तस्याः सं० । अत एव हे दीप्रदीपाङ्कुरायते ! दीपाङ्कुरा इव प्रदीपा इव, तद्वद् देदीप्यमानत्वाद् दीपाकुराः सिद्धाः तेषाम् आयतिर्विस्तारः प्रभावो वा दीपाङ्कुरायतिः । दीप्रा दीपाङ्कुरायतिर्यस्यां सा दीप्रदीपाङ्कुरायतिस्तस्याः सं० । तथा हे अभप्लोषे ! न भाति "क्वचित्" [५।१।१७१] इति डे अभः अशोभमानः अविद्यमान इति यावत् । 'प्लुवू दाहे' [ ५३३] "इकिश्तिव्०" [५।३। १३८] इति इप्रत्यये प्लोषिर्दाहः सन्तापः-यस्यां सा अभप्लोषिः, तस्याः सं० । त्वं नः अस्माकं संबन्धिनी स्तात्-भव-इति क्रियासंबन्धः । त्वं किं० प्रत्यूहा विघ्ना जन्मजरा-मरणादयस्तान् शटसि क्षयं नयसि विपि प्रत्यूहशडू ड-लयोरक्याल्लत्वं प्रत्यूहशछ । पुनः किं० एवर्धमा "एवः केवलः" [ उणादिसूत्र ५०५ ] इत्युणादिवचनात् । एवाः सर्वकर्मविमुक्तत्वेन केवला ऋद्धाः समृद्धाः तेषां मा इव लक्ष्मीरिव एवर्धमासिद्धानां मुक्तिरेव लक्ष्मीरिति ॥७५||
इति श्रीजिनशासनानुगामितीर्थकर-तीर्थाद्याराधनोभूतां सिद्धिं वर्णयित्वा जैनमतानुगामिनं श्राद्धं वर्णयति-तथाहि
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली। . प्रत्यूहशलभप्लोषे दीपदीपाङ्करायते ॥ ७६ ॥ [ सिद्धये वर्धमाऽनस्ताऽऽत्ताऽम्रायन् नखमण्डलीः ।
*प्रत्यूहशलभप्लोषे ! ऽदीप्रदीपाङ्कुराऽयते ! ॥ ७६ ॥] [१ सिद्ध+या सिद्धय+इभ्य + सिद्धयेभ्य+णि+क्विप्=सिद्धयेब्+अर्द-सिद्धयेब+ह सिद्धयेबर्द्ध +मा+अनस्-सिद्धयेबर्द्धमाऽनस्+ता=सिद्धये बर्द्धमानस्ता+आत्त+अम्लायत्-सिद्धयेबर्द्धमाऽनस्ताऽऽत्ताऽम्लायत्-सिद्धयेवर्धमानस्तात्ताम्रायत् । ३ नख+मण्ड+ली नखमण्डलीः-नखमण्डली । ४ प्रति+ ऊह-प्रत्यूह+शर-प्रत्यूहशर+भू-प्रत्यूहशरभ%प्रत्यूहशलभ । प्र+उषा-प्रोषा-प्लोषा । प्रत्यूहशलभ+ प्लोषा-संबोधनम्-प्रत्यहशलभप्लोषे ! । ५ 'दीप्रदीप'शब्दात् 'दी'वर्णस्य निष्कासने 'प्रप' इति । तस्य संबोधनम् प्रप! इति । ६ दीप्रदीपाङ्कर इत्यत्र 'अङ्कुर' इति नाम्नः धातुत्वे आचारार्थे क्विपि द्वितीयपुरुषकवचने पञ्चम्या 'हि' प्रत्ययान्तम् क्रियापदम् । ७ अयते ! संबोधनम् । ]
व्याख्या---शब्दानां विरोध्यर्थप्रतिपादकत्वाद् न यतिः अयतिः श्राद्धः' असुखं दुःखम् ' इतिवत्-तस्य सं० हे अयते ! श्राद्ध ! हे प्रत्यूहशल[ भ-] प्लोषे ! प्रत्यूहाः प्रतिकूला ऊहाः परस्त्रीगमनादिविषये दुष्टा मतिविलासास्त एव शरं जलं तस्माद् भवन्ति " क्वचित् " [५ । १ । १७१ ] डे शलभानि कमलानि तेषु विषये प्रकृष्टा उषा इव रात्रिरिव प्रत्यूहशलभप्लोषा तस्य सं० " एदापः "
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org