________________
या, तस्याः सं०, श्रोतणां कमलासम्पत्तेः । त्वं नः अस्माकम् अवर्धमानः वर्धमान इव वीरजिन इव आचरः इत्यर्थः । कस्मिन् ? प्रत्यूहाः प्रतिकूला ऊहाः संशया इति यावत् । तथा शयम्-निद्रां मूढत्वमिति यावत्-करोतीति णिजि क्विपि तल्लोपे शय् मौढ्यकर्ता यः-- ड-लयोरैक्यात् "डः शिवे ध्वनौ" [ ] इत्येकाक्षरवचनात् –डो ध्वनिर्वचनमिति यावत् । पश्चाद् घोषवति परे “व्योः" [१।३।२३] इति यलोपे शडः कुत्सितवचनम्, प्रत्यूहाश्च शडश्च प्रत्यूहशडौ, तयोर्विषये भाति प्रत्यूहशलभो यः प्लोषो विनाशस्तस्मिन् । त्वं किं० अयं प्रत्यक्षः । पुनः किं० खस्य ज्ञानस्य मण्डली इव श्रेणिरिव खमण्डली ज्ञानस्य तदाधारत्वात् । नः किं० 'डुदांग्क् दाने' [ ११३८] इत्यतः "इ-कि-श्ति " [५।३।१३८] इति किप्रत्यये "इडेत् पुसि चातो लुकू" [४।३।९४] इति आलुकि दिर्ज्ञानम् , तथा ई लक्ष्मीस्तया प्रदीप्यामहे इति क्विपि दीप्रदीपस्तेषां दीप्रदीपाम् दानिनामित्यर्थः ।।७४॥
___ इत्यर्थत्रयेण श्रीजिनोक्तं सिद्धान्तं व्यावर्ण्य सकलकर्मक्षयोद्भूतां सिद्धिं वर्णयति -तथाहि
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली। प्रत्यूहशलभप्लोषे दीपदीपाङ्करायते ॥७५।।
सिद्धयेवर्धमा नः स्तात् ताम्रायन्नखमण्डली.! ।
प्रत्यूहशल् अभालोषे ! दीर्मंदीपाङ्करायते ! ॥७५॥] १ [सिद्धे ! संबोधनम् । २ एवर्धमाः प्रथमैकवचनम् । एव+ऋद्ध+मा-एवर्धमाः । ३ नः षष्ठी । ४ स्तात् क्रियापदम् । ५ ताम्र+अस्-ताम्रास्+अत्=ताम्रायत् । न+ख+मण्डल नखमण्डल+इन्-नखमण्डली।ताम्रायत्+नखमण्डली-ताम्रायन्नखमण्डली+ई-ताम्रायन्नखमण्डली:-विसर्गा ऽभावे अस्य संबोधनम्-ताम्रायन्नखमण्डली!। ६ प्रत्यूह+शल-प्रत्यूहशल प्रथमान्तम् । 'शद्' धातोः 'शइ' इति कृत्वा ‘शल' संजायते । ७ अ+भ+प्लोषि-अभप्लोषिः--अस्य संबोधनम्-अभप्लोषे!। ८ दीप्र+दीप+अङ्कुर+आयति-दीप्रदीपाङ्कुरायतिः-संबोधने--दीप्रदीपाङ्कुरायते !। ]
व्याख्या--हे सिद्धे ! मुक्ते ! हे ताम्रायन्नखमण्डलीः ! -- तानं धातुभेदः उपलक्षणत्वात् सुवर्णादि, तद्वत् सकलकर्ममलविमुक्तत्वेन असन्ति शोभन्तै क्विपि ताम्रासो हेमवद् दीप्यमानाः । तथा अ इव-कृष्ण इव -आचरन्तः “कर्तुः क्विप्०" [३।४।२५] इति विपि शतरि अन्तः ये-ना ज्ञानम्, खं सुखम्, तयोर्मण्डलं समूहो विद्यते येषां ते नखमण्डलिन आत्मानः । पदत्रयस्य समासे ताम्रायन्नखमण्डलिनः, तान् । 'ईच् गतौ'
१ 'दिर्दानम्' इति समुचितम् अर्थानुसारेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org