________________
८०
व्याख्या-सिद्धः सिद्धान्तः, प्रतिक्ला ऊहाः प्रत्यूहाः, त एव शलभाः पतङ्गाः तेषां प्लोघे विनाशे प्रदीपाङ्कुरायते प्रदीपाङ्कुरवदाचरति इति क्रियासम्बन्धः । किम्भूतः ? यद्यपि 'इङ्क अध्ययने' [११०४ ] इति धातुः अधिपूर्व एव दृश्यते, तथापि उपसर्गस्यातन्त्रत्वात् इते अधीते लक्षणया धातूनामनेकार्थत्वाद् व्याख्याति बाहुलकात् केवलादपि विचि गुणे ए: आख्याता वर्षमानो वीरजिनो यस्य स एवर्धमानः श्रीवीरप्रोक्त इत्यर्थः । पुनः किं० तस्य भावस्तत्ता तत्वं, तस्या इयं, "तस्येदम्" [६।३। १६०] अणि तात्ती । तात्ती चासौ आश्च लक्ष्मीश्च तात्ता तत्त्वलक्ष्मीः म्लायन् म्लानीभवन् नेति निषेधे तत्वश्रीनिर्मल इत्यर्थः । पुनः किं० खः सूर्यस्तस्य मण्डलानि चतुरशीत्यधिकशतसङ्ख्याकानि आधेयतया विद्यन्ते यस्मिन् स "अतोऽनेकस्वरात्" [७।२।६] इनि खमण्डली-सूर्यस्य मण्डलानि सिद्धान्ते एवाभिहितानि । यदुक्तं संग्रहणीग्रन्थे
. "पनरस चुलसीइसयं, इह ससि-रविमंडलाइं तक्खित्तं" [ बृहत्संग्रहणीसूत्र गाथा ८६-चन्द्रसूर्यमण्डलाधिकार ] इति ।
. पुनः किं० न दीनान् करोति परमानन्ददानेन निजपाठकान् इति णिजि क्विपि सौ "नाम्नो नो०" [२।११९१] इति नलोपे अदी ॥७३॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥७४॥ [सिद्ध ! ये ऽवर्धमानस्तात्ताऽऽम्राऽयन्न खमण्डली ।
प्रत्यूहशलभप्लोषे दीपदीपां कुँरायते ! ॥७४॥] [१ सिद्ध !। २ या इत्यस्य संबोधनम् ये ! ।३ वर्धमान'शब्दस्य नामधातुत्वे आचारार्थे क्विपि ह्यस्तन्यां द्वितीयपुरुषैकवचने अवर्धमानः इति क्रियापदम् । ४ ता+अत्ता-तात्ता+आम्ल= तात्ताम्ल-तात्ताम्र! ५ अयम् प्रथमा । ६ नः-षष्ठी-न। ७ खमण्डल-इन- खमण्डली । ८प्रत्यूह+शयू+ड-प्रत्यूहशड+भ-प्रत्यूहशडभ-प्रत्यूहशलभ+प्लोषे ।९ दि+ई-दी+प्रदीपाम्दीप्रदीपाम् षष्ठीबहुवचनम् । १० कुल+अस्-कुलास+यति-कुलायति । अस्य संबोधने कुलायते-कुर
___ व्याख्या -हे सिद्ध ! सिद्धान्त ! । हे तात्ताम्र ! ता लक्ष्मीः अत्ता माता यस्य स तात्तः कामः, तेन लायति "क्वचित्" [५।१।१७१] डे तात्ताम्लस्तस्य सं० हे तात्ताम्ल !। तथा हे कुरायते !-र-लयोरैक्यात्-कुलं गृहम् अस्यन्ति त्यजन्ति क्विपि कुलासो गृहत्यागिनो यतयो यस्मात् स कुलायतिस्तस्य सं० । साम्प्रतं यतयः सिद्धान्ताधारेणैव हि गृहादि मुक्त्वा संयमं पालयन्ति । तथा हे ये ! या लक्ष्मीरिव
१ पञ्चदश चतुरशीतिशतम् । इह शशिरविमण्डलानि तत्क्षेत्रम् । २ अत्र' तात्ताम्ल' प्रयोगसाधनाय 'आम्लायति' इति उचितम् । अन्यथा 'तात्तम्ल'इत्येव स्यात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org