________________
७९
१ । ९१] इति नलोपे स्ता वाचकः कथयिता इति यावत्, तस्य विशेष्यविवक्षया पूर्व. निपाताभावे वर्धमानः चरमजिनः स्ता वाचको यस्य स वर्धमानस्ता वर्धमानप्ररूपित इत्यर्थः । यद्यपि सिद्धान्तः श्रीगौतमादिगणधरै रचितः तथाप्यर्थप्ररूपकत्वात् तस्यैव प्राधान्यात् श्रीवर्धमानेनैव - इति । यदुक्तम् —
"अत्थं भासइ अरहा, सुत्तं गंथंति गणहरा निउणं" । [ आवश्यक नि० गा० ९२ कोट्याचार्यवृ०पू० ३४२ ] इति । स इति तच्छब्दो ग्राह्यः । सः कः ? इत्याहयं सिद्धान्तम्- 'ईच गतौ ' [ १२५२ ] गत्यर्थानां ज्ञानार्थत्वाद् - ईयते जानाति तत्त्वातत्त्वमिति क्विपि ई: तत्त्वज्ञो जनः । आङ्पूर्वाद् ' अयि गतौ ' [ ७९० ] इत्यतो ह्यस्तन्यन्यदर्थैकवचने-आयत - आगच्छत्-आश्रयदिति यावत् पठनाद्यर्थमिति शेषः । यतो जनः किं ? “डः शिवे ध्वनौ" [ ] इत्येकाक्षरोक्तेः डम्-पठनध्वनिम्- 'ली [ च् ] श्लेषणे' [ १५४८] लीयते क्विपि डलीः उच्चैः स्वरं पठन्नित्यर्थः । पुनः किं ? दिनं करोतीति णिजिक्विपि दीः सूर्यः स इव - सूर्यसदृशः इत्यर्थः । कस्मिन् ? प्रतयः सिद्धान्तलिखित पत्रसञ्चयाः ताः लेखनेन 'अव रक्षण०' [ ४८९ ] इति करणार्थाद् अवेः अवति करोति क्विपि प्रत्यूः लेखनेन प्रतिकारको हो हस्तो येषां ते प्रत्यूहाः सिद्धान्तलेखकास्ते एव-शरं जलं तस्माद् भवन्ति ' क्वचित्" [ ५ । १ । १७१ ] डे र-लयोरैक्यात्-शलभानि कमलानि तेषु विषयेषु ' प्लुष्य् स्नेहन ० ' [ १५६२ ] इति घञि प्लोषः स्नेहः तस्मिन् । यथा रवेः कमले स्नेहस्तथा अस्यापि सिद्धान्तलेखकेष्वित्यर्थः । पुनः किं० कुः स्थानम्, कासां प्रदीपां कान्तीनाम् । यं किं० "नस्तु संविदि" [ ] इत्येकाक्षरोक्ते:- नः ज्ञानं नानार्थप्रतिपादितम् तेन खश्च सूर्यश्व मश्च चन्द्रश्च समाहारद्वन्द्वे खमं सूर्यचन्द्रमिव आन्तरतमो भेदकत्वात् ॥७२॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीमदीपाङ्कुरायते ||७३ || [ सिद्धे ये वर्धमानस्तताम्रायन्नै खमण्डली | प्रत्यूहशलभप्लोषे दी प्रदीपाङ्कुरायते ||७३ ॥ ]
r
[ १ सिद्धः + ए = सिद्धये । सिद्धः प्रथमान्तम् । २ ए + वर्धमानः - एवर्धमा॒नः । एवं सिद्धयेवर्धमानः । एवर्धमानः प्रथमान्तम् ' सिद्धः ' इत्यस्य विशेषणम् । ३ तत्+ता=तत्ता+अणूतात्ती + आ = कर्मधारय समासे = तात्ता+म्लायन् = तात्ताम्रायन् प्रथमान्तम् । ४ न निषेधवाची ' म्लायन्' इत्यनेन सह ' न' इत्यस्य अन्वयः -न म्लायन् इत्यर्थः । ५ ख + मण्डल + इन्= खमण्डली ६ 1 'दीन 'शब्दस्य 'दी 'प्रयोगः 'दिन' शब्दस्य 'दी 'निष्पादनरूपया पूर्वोक्तप्रक्रियया साध्यः । ]
अर्थ भाषते अर्हन् सुत्रं ग्रथ्नन्ति
१
Jain Education International
गणधरा निपुणम् ।
For Private & Personal Use Only
?
www.jainelibrary.org