________________
८७
व्याख्या - हे म ! हे वर्ध ! वः पद्मम् तेन ऋद्धस्तस्य सं० । त्वं प्रपूर्वात् 'पीव मीव तीव नीव स्थौल्ये' [ ४६६ - ४६९ ] इत्यतः कर्तरि क्विपि, वस्योटि प्रत्यूः पुष्टाः ये हो हस्तः प्राणिनाम्, शरा बाणाः, भानि नक्षत्राणि, प्रकृष्टा उषा रात्रिः, ई लक्ष्मीः, दीप्रः अग्निः दीपः प्रदीपः, अङ्कुम लतानां प्ररोहाः तेषामायतिर्विस्तारः, तस्याः सिद्धये निष्पत्तये स्तात् भव- इति क्रियासंबन्धः । सर्वेऽपि पदार्था ब्रह्मणैव कृता इति मतं शिव शासने तस्य जगत्कारकत्वात् । पुनः किं० अन्नं धान्यम् खानि चक्षुरादीनीन्द्रियाणि तेषां मण्डलम्, तदवश्यं करोतीति धातुत्वे “णिन् चावश्यकाधमर्यै ' ' [ ५ । ४ । ३६ ] इति णिनि अन्नखमण्डली । त्वं किं० आन इव जीवनमिव आनः, तजीवनत्वाद् विश्वस्य । त्वं पुनः किं० ताम्रा रक्तवर्णस्तेन अससि शोभसे क्विपि ताम्रा रक्तवर्ण इत्यर्थः । पीतरक्तयोरैक्यात् ॥ ८० ॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली | प्रत्यूहशलभप्लोपे दीमदीपाङ्कुरायते ॥ ८१ ॥
[ सिद्धये वैध मानः स्तात् ताम्रायन्नै खमण्डली ! | प्रत्यूह ! शलभप्लोषे दीमदीपाङ्कुराय ते" || ८१ ॥ ] [ १ सिद्धये चतुर्थ्यन्तम् । २ वा+ऋद्ध ! =वर्ध ! | ' वा ' एवार्थे । ३ मानः प्रथमैकवचनम् । ४ स्तात् क्रियापदम् । अस्य 'न' पदेन अन्वयः । न स्तात् ? किन्तु स्तात् एष इति भावः । ५ म्ला + शतृ = म्लायत् । ता+म्लायत् = ताम्लायत् । ग्रन्थकारदर्शितरीत्या तु म्लानि+ णिच्+क्विप्--म्लान् ततः शतृ' प्रत्यये - ' म्लानत् ' इति स्यात् ' म्लायत्' इति न स्यात् । ६ न निषेधवाची । ७ ख + मङ्गखमन् + लडी = खमन्डली + ई = खमण्डली ! ८ प्रति + अवू = प्रत्यू + ह = प्रत्यूह ! ९ शर+भ+प्र+वस्+ क्विप्+शरभप्रोषे चतुर्थ्या एकवचनम् । १० चतुर्थ्यन्तम् । ११ ते तुभ्यम् ।]
० 1 ब्रह्मा
व्याख्या-वा इत्येवार्थे । हे ऋद्ध ! समृद्ध ! तथा हे ताम्लायत् ता लक्ष्मीस्तया म्लायति ग्लानिं करोतीति णिजि, क्विपि, तल्लोपे ताम्लायन्, तस्य सं विष्णुनाभिस्थ पुण्डरीकपमै निवसति तं विष्णुना निजप्राणेशेन सम्भोगकाले पश्यन्तं विलोक्य लक्ष्मीर्लज्जावशात् म्लाना भवतीत्युक्तिः । तथा हे खमण्डली ! खे नभसि मङ्गति गच्छति क्विपि " पदस्य " [ २।१।८९ ] इति गलोपे खमन् पक्षी अर्थाद् हंसः तेन ‘लड विलासे' [ २५४] क्विपि व्यत्यये डल् सविलासं यथा स्यादेवम् ईयते गच्छतीति क्विपि खमण्डलीः, तस्य सं ० हंसवाहनत्वात् । तथा 'प्रति' पूर्वात् अवते
१ 'इदम् एकवचनम् अर्थः बहुवचनी' एतदपि चित्रकाव्ये चलति - इति ज्ञेयम् । २ 'मण्डल' शब्दस्य नामधातुत्वे मण्डलं करोति इति मण्डलयति इति मण्डळू ततः णिन् - मण्डली । ३ 'पद्मे निवसति' इति शुद्धम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org