________________
र्भावनार्थात् कर्तरि विपि, वस्योटि प्रत्यूः प्रतिभः हः हस्तो यस्य स प्रत्यूहः, तस्य सं० हे प्रत्यूह ! । कस्यै ? सिद्वये जगत्पदार्थविवाने इत्यर्थः । हे ते तुभ्यं 'मानि पूजायाम्' [७४९ ] घञि मानः पूजा न स्तात् अपि तु भव-इति-क्रियाकारकयोजनम् । ते किम्भूताय ? र-लयोरैक्यात् शरं जलं तस्माद् भवतीति "क्वचित् " [५।१।१७१ ] डे शलभं कमलम् तत्र प्रकर्षेण वसतीति क्विपि, " यजादिवचे:०" [४।११७९ ] इति य्वृति "घस् वसः" [२।३।३६] इति षत्वे चतुर्थी शलभाडोषे । पुनः किं० दीप्रदीपाङ्कराय प्रदीपसदृशाय अर्थात् निजशरीरकान्त्या, सर्वपदार्थप्रकटीकरणेन वा ।।८१।।
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्ड ली। प्रत्य॒हशलभप्लोषे दीपदीपावरायते ॥८२॥ [सिद्धये ! ऽवैर्धमा नैस्तात् ताम्रा ! "यं न खमेण्डली ।
अंत्यहशलभप्लोषे दीदीपाऽङ्करायते ॥८२॥7 [१ सिद्ध+यि-सिद्धयि , एतस्य सिद्धये ! संबोधनम् । २ अव क्रियापदम् । ३ ऋद्ध+ मास्-ऋद्धमाः । ४ नः षष्ठीबहुवचनम् । ५ तात् चोरवाचकत'शब्दस्य पञ्चम्येकवचनम् । ६ ताम्र ! संबोधनम् । आ!-'आ'शब्दः ब्रह्मगः वाचकः-संबोधनम् । ताम्र+आ-ताम्रा ! । ७ यम् इति द्वितीयान्तम् अत्र इत्थंभूतलक्षगे द्वितीया । ८ न निषेधवाची । अङ्करायते' इत्यनेन क्रियापदेन 'न'स्य अन्वयः । ८ खमण्डली प्रथमान्तम् 'अङ्कुरायते' इति क्रियापदस्य कर्तृरूपं पदम् । १० प्रति+अह-त्यूह+शरमप्लोष-प्रत्यूहशरमप्लोष-शरभस्य शलभत्वे--प्रत्यूहशलभप्लोषे-सप्तमी । ११ दीपदीना प्रथमान्तम् ‘खमण्डली' इत्यस्य विशेषणम् । १२ न अङ्कुरायते ? अपि तु अङ्कुरायते एव इति एतत् क्रियापदम् । ]
व्याख्या-रक्तवगैत्वात् हे तात्र ! हे आ !-ब्रह्मन् ! " आ विधातरि मन्मथे" [] इत्येकाक्षरवचनात् । हे सिद्धये ! सिद्धा सम्पन्ना यिः सरस्वती यस्मात् स सिद्धियस्तस्य सं० । यो वेधसि यमे "इत्यनेकार्थवचनात् यस्य धातुः अपत्यं “अत इ"६।१।३१]इति 'इ'प्रत्यये यिः सरस्वती त्वं नः अस्माकं "तस्तु तस्करे" [] इति वचनात् तात् चौराद् अव-रक्ष-इत्यर्थः । त्वं किं ऋद्धः असंख्यप्रमाणत्वेन वृद्धः माः मासो यस्य स ऋद्धमाः । यदुक्तम्-“दैवे युगसहने द्वे ब्राह्मम्"[ ] इति । देवानां द्वे युगसहस्रे ब्राह्मम् अहोरात्रम् । मासस्तु त्रिंशद्गुण एवैतस्मात् । सः कः ? यं ब्रह्माणं त्वां प्रति लक्षीकृत्य खमण्डली सुखश्रेणी न अङ्कुरायते अपि तु अङ्कुरायते एव । यथा अङ्कुरो वर्धते तथा खमण्डली अपि – इत्यपीत्यर्थः । कस्मिन् सति ? प्रतिः ज्ञानम्, ऊहो विचारः समाहारद्वन्द्वे प्रत्यूहम् तदेव- र-लयोरैक्यात् - शरभान्
१ “ यस्तु वाते यमेऽपि च "- “ यश्च धातरि "-३५, ३६-सुधा० एकाक्षरनाम० । २ " तकारस्तस्करे युद्धे " ।२३। सुधा० एकाक्षरनाम० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org