________________
अष्टापदजन्तून्
लोषति - दहति - क्षयं नयति " कर्मणाऽण् " [ ५ । १ । ७२ ] इति अणि शलभप्लोषो मेघः तस्मिन् सति । यथा मेघे सति अङ्कुरो वर्धते तथा सुखमपि — ज्ञान- विचारयोः सतोः - अस्येत्यर्थः । खमण्डली किं० दीप्रो दीप्यमानो दीपनं घञि दीपः कान्तिर्यस्याः सकाशात् सा दीप्रदीपा ॥८२॥ इतिवृत्तार्थत्रयेण विधातारं व्यावर्ण्य नारायणं वर्णयति - तथाहिसिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली | प्रत्यूहशलभप्लोपे दीपदीपाङ्कुरायते ॥ ८३ ॥
[ सिद्धये वर्धमान स्तात् 'ताम्रा "यं नै खमण्डली । प्रत्यूहशल अभ लोपेद् ईप्रदीपम् "कुरायते
॥८३॥ ]
[ १ सिद्धये चतुर्थ्यन्तम् । २ वर्धमानः प्रथमान्तम् । ३ स्तात् क्रियापदम् । ४ ताम्रा'ई' इत्यस्य विशेषणं प्रथमान्तम् । ५ यम् द्वितीयान्तम् । ६ न निषेधसूचि पदम् । अस्य 'आयत' इत्यनेन अन्वयः अर्थात् न आयत ? किन्तु आयत एव । ७ खमण्डली प्रथमान्तम् 'ई' इत्यस्य विशेषणम् । ८ प्रति + ऊ + ह = प्रत्यूह+शल्किन्+ णिच्+ क्विप् = प्रत्यूहशल प्रथमान्तम् । ९ अ+भ=अभ+प्लोष+इन्ध् + क्विप्=अभप्लोषेत् । प्रत्यूहशल + अभप्लोषेत् = प्रेत्यूहशलभ फ्लोषेत् । १० ई+दीप्र+दीपू+आम्=ईदीप्रदीपाम् षष्ठीबहुवचनम् । प्रत्यूहशलभप्लोषेत्+ईदीप्रदीपाम् = प्रत्यूहशलभप्लोषे दीप्रदीपाम् । ११ कुः प्रथमा । १२ आयत + ई = आयते । अय्' धातोः ह्यस्तन्यां तृतीयपुरुषैकवचनम् । ई लक्ष्मीः । ]
""
O
59
99
व्याख्या- -" वर्धमानो वीरजिने स्वस्तिकैण्ड - विष्णु । [ हैम० अ० सं० चतुःस्वरकां ० श्लो० १५६१ ] इत्येकार्थवचनाद् वर्धमानो विष्णुः सिद्धये अर्थात् सेवकानाम्-इति सम्बन्धः । यं विष्णुम् ई लक्ष्मीर्न आयत-नागता ? अपि तु कामये आगतैवेत्यर्थः । अत्र " अयि गतौ " [ ७९० ] इत्यतो ह्यस्तन्यां रूपसिद्धिः । ई किं० ? खानि इन्द्रियाणि तद्ग्राह्या विषया अपि तेषां मण्डलम् - समूहम् - इच्छति इति क्यनि " क्यनि " [ ४ । ३ । ११२ ] इति ईकारे, क्विपि " अतः [ ४ । ३ । ८२ ] इति अल्लोपे, “य्वोः ध्वय्० : [ ४ । ४ । १२१ ] इति यलोपे खमण्डली-विषयेच्छुः-इत्यर्थः । पुनः किं० ताम्रा रक्ता अनुरागिणीत्यर्थः । पुनः किं० प्रति प्रतिकूलः ऊर्हिसको हः शिवो यस्य स [ प्र ] त्यूहः कामः तस्य शल्किनं मत्स्यं वाहनं निजपुत्रवाहनतया आख्याति णिजि क्विपि, तल्लोपे पदस्य [ २ । १ । ८९ ] इति कलोपे प्रत्यूहशल | पुनः किं० अः कृष्णः तस्मिन् भातीति अभः स्वभर्तृविषये शोभमानः । 'लुगू स्नेहन० [१५६२] इत्यतो घञि प्लोषः स्नेहः तेन इन्धे दीप्यते क्विपि अभप्लोषेत् । पुनः किं० कुः स्थानम् । कासाम् ? ई पृथिवी तस्यां याः प्रदीपः कान्त्यस्तासाम् ॥८३॥
66
"
१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org