________________
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्करायते ॥८४॥ ['सिद्धये वैधमानस्तात् ताऽऽम्रा यन्नखमण्डली ।
"प्रत्यूहशरभप्लों षेदीमदीपां कुरायते ॥८४॥] [१ सिद्धा+ई सिद्धे । अस्य चतुर्थ्या एकवचने सिद्धये । २ वर्धमानः प्रथमान्तम् । ३ स्तात् क्रियापदम् । ४ ता+आम्ला +अस्=ताऽऽम्लाऽसू ताऽऽम्लास्+यन्न०=ताम्लायन्न% ताऽऽम्रायन्न । ५ ई+अन्न-यन्न+खमण्डली-यन्नखमण्डली प्रथमान्तम् । ६ प्रत्यूह+शर+व+भू+ णिचू+क्विप-प्रत्यूहशरभप् प्रथमान्तम् । ७ इ+क्विपू-इत् । र+उषा-रोषा+इत्-रोषेत्-लोषेत् प्रथमान्तम् । ८ प्र+दा+अङ-प्रदा+क्य+क्विपू-प्रदीः । ई+प्रदीः ईप्रदीः । लोषेत्+ईप्रदीःलोषेदीप्रदीः । ९ पा+कु+राय+ता पाकुरायता+ई-पाकुरायतेः पाकुरायते । प्रत्यूहशरभप्+लोषेत्= प्रत्यूहशलभप्लोषेत्+ईप्रदी+पाकुरायतेः प्रत्यूहशलभप्लोषेदीप्रदीपाकुरायते । ततः अनुस्वारवृद्धौ दीपांकुरायते । अत्र लोषेत्+ईप्रदी+पाकुरायते इति त्रयाणां पदानां विशेषणसमासः ।]
व्याख्या-वर्धमानो विष्णुः सिद्धा-शाश्वती-चासौ ई लक्ष्मीश्च सिद्धेः ततः सिद्धये अविनश्वरसम्पदे स्तात्-भवतु इति क्रियासम्बन्धः । किम्भूता ? लक्ष्मीः स्वकलत्रं तस्याः । आपूर्वात् म्लायतेः “उपसर्गादातः" [५ । ३ । ११० ] इति अङि आम्लाः म्लानिः तामस्यति व्यपनयति व्यवच्छेदयति क्विपि ताम्लाः र-लयोरैक्यात् । "रस्तीक्ष्णे वैश्वानरे कामे" [ ] इत्येकाक्षरवचनात् रः कामः तदर्थम् उषां रात्रि "इंक् स्मरणे' [ १०७४ ] एति स्मरति क्विपि लोषेत् । ईदृशी या ई लक्ष्मीस्तस्या प्रपूर्वात् दैन्य पालने[६०४] "उपसर्गादातः [५ । ३ । ११०] इति अङि घेदी पालनम् इच्छतीति क्यङि [क्यनि क्विपिलोषेदीप्रदीःतथा पाति रक्षति लोकान् इति क्विपि पा रक्षिका या कुः पृथिवी तस्या 'रांक दाने' [अदादि०११]घञि रायो दाता भावे तलि पाकुरायता पृथ्वीदानमित्यर्थः । ताम् ईयते श्रयति क्विपि पाकुरायतेः पश्चाद् विशेषणसमासे लोषेदीप्रदीपांकुरायते अनुस्वाराभावः पूर्ववत् । पुनः किं० ई लक्ष्मीस्तस्या अन्नम् जीवनमिव । तथा खमण्डलं विद्यते मूर्तितया यस्य "अतोऽनेकस्वरात्" ७।२६]इति इनि खमण्डली पश्चाद् विशेषणसमासे यन्नखमण्डलीः । पुन कि० प्रत्यूहा विघ्नास्त एव शरं जलं तस्मिन् बः कलशः तस्माद् भवति क्विपि बभूः अगस्तिः तमाख्यातीति णिजि क्विपि तल्लोपे सौ तस्या लुपि "ग-ड-द-बादेः०[२। १। ७७] इत्यादेबस्य भत्वे भस्य बत्वे, विरामविवक्षया "विरामे वा" [१। ३ । ५१ ] इति पत्वे प्रत्यूहशलभप्-अयमर्थः-प्रत्यूहजले अगस्त्यमारव्यातीत्यर्थः । यो यस्य वैरी स तस्य नामाख्यानेनापि पीड्यत एव ॥ ८४ ॥
१ अत्र 'ताम्ला' पदं साधनीयम् अतः किंभूता ता ? इति पाठः समुचितः । २ अत्र ‘प्रपूर्वात् देंङ् त्रै पालने' [ ६०४ ] इति पाठ एव योग्यः 'प्रदा'प्रयोगसाधनाय । ३ 'प्रदा' इति उचितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org