________________
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङ्करायते ॥८५॥ [सिद्धयेवर्धमानस्ताऽऽत्ताऽऽम्रा यन्नखमेण्डली । 'प्रत्यूहशलभ प्लोषेदी प्रदीप कुँरायते" ॥८५॥1
[१ या+ई+चन्-येवा । सिद्ध+येवा-सिद्धयेवा । अत्र सिद्ध-येवपदयोः विशेषणसमासः-प्रथमान्तम् । २ ऋद्ध+मा+न्+अस्-ऋद्धमानः प्रथमान्तम् । सिद्धयेव+ऋद्धमानः सिद्धयेवर्धमानः । ३ ताऽऽत्त+आम्र+अस्-ताऽऽक्ताम्रास् । ४ यन् प्रथमान्तम् । तात्ताम्रास+यन्- तात्ताम्रायन् । ५ अख+ मण्डल+इन् अखमण्डली । यन्+अख० यन्नख० । ६ प्रती+ई-प्रती । प्रती+ऊ+हस+लभा (बहुव्रीहौ) प्रत्यूहशलभः प्रथमान्तम् । ७ प्लोषेत् क्रियापदम् । ८ ईः द्वितीयाबहवचनम्। प्लोषेत् इत्यस्य कर्मरूपम् । ९ प्रदीपाम् षष्ठीबहुवचनम् । १० कुः प्रथमान्तम् । ११ ई+अण्-आय । त+इञ-ति । आय+ति आयतिः । तस्य षष्ठयाम् आयतेः-आयते ।।
व्याख्या-सिद्धो विख्यातस्तथा यां लक्ष्मी कामकेलये ईयते गच्छतीति क्वनिपि येवा विष्णुः । पश्चाद् विशेषणसमासे सिद्धयेवा विष्णुः । ई लक्ष्मीः तस्या अयं "तस्येदम्" [६ । ३ । १६० ] अणि " वृद्धिः स्वर०" [७।४।१] इति वृद्धौ आयः श्रीसंबन्धी यः, तस्य चौरस्य अपत्यम् “अतः” [ ४ । ३ । ८२] इति "अवर्णेवर्णस्य" [७।४।६८ ] इति अलोपे तिः तस्य आयतेः । ई: लक्ष्मीः सम्पदः प्लोषेत्-दहेत्-अपहरेत् इत्यर्थः । अत एव किं० ई लक्ष्मी प्रति लक्षीकृत्य अव्ययीभावे नपुंसकत्वे हस्वत्वे प्रति या ऊर्गमनम् हसो हास्यम् तयोर्लभा प्राप्तिर्यस्य स प्रत्यूहशलभः । पुनः किं० ऋद्धां समृद्धां मां ज्ञानम् न अस्यति व्यपनयति क्विपि ऋद्धमानः अत्र " अभ्वादेरत्व०" [१ । ४ । ९० ] इति भ्वादिवर्जनाद् दीर्घाभावः। पुनः किं० ता लक्ष्मीः अत्ता माता यस्य स तात्तः कामः स एव आत्रैः सहकारवृक्षैः असति शोभते क्विपि आम्राः वनम् तस्मिन् “यम् अम्भसि पशावपि"[ ]इत्येकाक्षरवचनात् यमिव आचरन् यन् जलसदृश इत्यर्थः । पुनः किं० अखानि सम्पूर्णानि मण्डलानि देशा विद्यन्ते यस्येति इति अखमण्डली । पुनः किं०प्रदीपां कान्तीनां कुः स्थानम् ॥८५ ॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्करायते ॥८६॥ [सिद्धये वैधमानः स्तात् ताम्राऽऽयेन् नखमण्डली । प्रत्यूहशलभ प्लोषेदी ! दीपाङ्कुरायें ! ते" ॥८६॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org