Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 118
________________ अष्टापदजन्तून् लोषति - दहति - क्षयं नयति " कर्मणाऽण् " [ ५ । १ । ७२ ] इति अणि शलभप्लोषो मेघः तस्मिन् सति । यथा मेघे सति अङ्कुरो वर्धते तथा सुखमपि — ज्ञान- विचारयोः सतोः - अस्येत्यर्थः । खमण्डली किं० दीप्रो दीप्यमानो दीपनं घञि दीपः कान्तिर्यस्याः सकाशात् सा दीप्रदीपा ॥८२॥ इतिवृत्तार्थत्रयेण विधातारं व्यावर्ण्य नारायणं वर्णयति - तथाहिसिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली | प्रत्यूहशलभप्लोपे दीपदीपाङ्कुरायते ॥ ८३ ॥ [ सिद्धये वर्धमान स्तात् 'ताम्रा "यं नै खमण्डली । प्रत्यूहशल अभ लोपेद् ईप्रदीपम् "कुरायते ॥८३॥ ] [ १ सिद्धये चतुर्थ्यन्तम् । २ वर्धमानः प्रथमान्तम् । ३ स्तात् क्रियापदम् । ४ ताम्रा'ई' इत्यस्य विशेषणं प्रथमान्तम् । ५ यम् द्वितीयान्तम् । ६ न निषेधसूचि पदम् । अस्य 'आयत' इत्यनेन अन्वयः अर्थात् न आयत ? किन्तु आयत एव । ७ खमण्डली प्रथमान्तम् 'ई' इत्यस्य विशेषणम् । ८ प्रति + ऊ + ह = प्रत्यूह+शल्किन्+ णिच्+ क्विप् = प्रत्यूहशल प्रथमान्तम् । ९ अ+भ=अभ+प्लोष+इन्ध् + क्विप्=अभप्लोषेत् । प्रत्यूहशल + अभप्लोषेत् = प्रेत्यूहशलभ फ्लोषेत् । १० ई+दीप्र+दीपू+आम्=ईदीप्रदीपाम् षष्ठीबहुवचनम् । प्रत्यूहशलभप्लोषेत्+ईदीप्रदीपाम् = प्रत्यूहशलभप्लोषे दीप्रदीपाम् । ११ कुः प्रथमा । १२ आयत + ई = आयते । अय्' धातोः ह्यस्तन्यां तृतीयपुरुषैकवचनम् । ई लक्ष्मीः । ] "" O 59 99 व्याख्या- -" वर्धमानो वीरजिने स्वस्तिकैण्ड - विष्णु । [ हैम० अ० सं० चतुःस्वरकां ० श्लो० १५६१ ] इत्येकार्थवचनाद् वर्धमानो विष्णुः सिद्धये अर्थात् सेवकानाम्-इति सम्बन्धः । यं विष्णुम् ई लक्ष्मीर्न आयत-नागता ? अपि तु कामये आगतैवेत्यर्थः । अत्र " अयि गतौ " [ ७९० ] इत्यतो ह्यस्तन्यां रूपसिद्धिः । ई किं० ? खानि इन्द्रियाणि तद्ग्राह्या विषया अपि तेषां मण्डलम् - समूहम् - इच्छति इति क्यनि " क्यनि " [ ४ । ३ । ११२ ] इति ईकारे, क्विपि " अतः [ ४ । ३ । ८२ ] इति अल्लोपे, “य्वोः ध्वय्० : [ ४ । ४ । १२१ ] इति यलोपे खमण्डली-विषयेच्छुः-इत्यर्थः । पुनः किं० ताम्रा रक्ता अनुरागिणीत्यर्थः । पुनः किं० प्रति प्रतिकूलः ऊर्हिसको हः शिवो यस्य स [ प्र ] त्यूहः कामः तस्य शल्किनं मत्स्यं वाहनं निजपुत्रवाहनतया आख्याति णिजि क्विपि, तल्लोपे पदस्य [ २ । १ । ८९ ] इति कलोपे प्रत्यूहशल | पुनः किं० अः कृष्णः तस्मिन् भातीति अभः स्वभर्तृविषये शोभमानः । 'लुगू स्नेहन० [१५६२] इत्यतो घञि प्लोषः स्नेहः तेन इन्धे दीप्यते क्विपि अभप्लोषेत् । पुनः किं० कुः स्थानम् । कासाम् ? ई पृथिवी तस्यां याः प्रदीपः कान्त्यस्तासाम् ॥८३॥ 66 " १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148